SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ शौरसेन्यां तिङन्तप्रक्रिया । २५१ अन्त्यादिदेति मो णः ॥३।२ । ७॥ शौरसेन्यामन्त्यान्मः मकारात् परो णकारागमो भवति इदेति इकारे एकारे च परे । जुत्तं णिमं । युक्तमिदम् । सरिसं णिमं । सदृशमिदम् । एकारे । किं णेदं । किमिदम् । एव्वं णेदं । एवमेतत् । इति शौरसेन्यां सुबन्तविभागः । अर्थ तिङन्ते विशेषाः प्रदर्यन्ते । भू सत्तायाम् । 'इहहचोर्हस्य' इत्यतः 'हस्य' इत्यनुवर्तते 'शौरसेन्याम्' इति च ॥ भुवो भः ॥३।२।६॥ भवतेर्धातोरादेशस्य सहकारस्य भकारादेशो वा भवति । भो इति स्थिते शेषे प्राकृतवत्' इत्यतिदेशात् 'लटस्तिप्ताविजेचू' इति इजेचोर्विधाने इजेचोर्दट् ॥३।२।२५ ॥ ___ लटस्तिप्तादेशयोरेजेचोर्दट् आगमो भवति । अनुक्तमन्यन्यायेन टित्वात् 'आद्यन्तौ टकितौ' इत्यादावेव स्यात् । भोदि । भुवदि । भुवदे। अन्यत् प्राकृतवत् । लटो मध्यमपुरुषबहुवचने 'थध्वमित्थाहचौ' इति हचि सति 'इहहचोर्हस्य' इति हस्य धकारः । बोध । पक्षे । होध । होह । शेषं प्राकृतवत् । भोदि । भोन्ति । भोन्ते । भोइरे । भोसि । भोइत्था । भोध । भोह । भोमि । भोम । भोमु । भोमो ॥ ललुटोः भविष्यति रिस ॥३।२ । २४ ॥ भविष्यदर्थे विहितस्य हेः स्सि भवति । हिस्सादीनामपवादः । भोस्सिदि । भोस्सिन्ति । भोस्सिन्ते । भोस्सिइरे । भोस्सिसि । १ My. and P. omit किं णेदं । किमिदम्. २ तिङन्तविशेषाः My., P. ३ वर्तमाने P., My. ४ स्सि इत्यादेशः T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy