SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४६ षड्भाषाचन्द्रिकायां हुं पृच्छादाननिवारणे ॥ २१॥ ४२ ॥ हुमित्यव्ययं पृच्छायां दाने निवारणे च प्रयोज्यम् । पृच्छायाम् । हुं कहअ सब्भावं । कथय सद्भावम् । दाने । हुं मह धनं । मम धनम् । निवारणे । हुं चिट्ठ ॥ वणे निश्चयानुकम्प्यविकल्पे ॥२।१। ४३ ॥ वणे इति निश्चयादौ प्रयोज्यम् । निश्चये । वणे होइ । निश्चयो भवति । अनुकम्प्ये । दासो वणे ण मुच्चइ । दासोनुकम्प्यो न मुच्यते । विकल्पे । होइ वणे ण होइ । भवति न भवति वा ॥ संभावने अइ च ॥२।१।४४॥ संभावने अइ इति चकाराद्वणे इति च प्रयोज्यम् । अइ देअर कि ण मेच्छसि । अइ देवर किं न पश्यसि । एवं वणेपि ॥ आनन्तर्ये णवरिअ॥२।१।४५॥ णवरिअ इत्यानन्तर्यार्थे प्रयोज्यम् । णवरिअ से रहुवइणो । अनन्तरमस्य रघुपतेः ॥ केवले णवर ॥ २।१।४६॥ णवरेति केवले प्रयोज्यम् । णवर दोजण्णं पअडिअं । केवलं दौर्जन्यं प्रकटितम् । केचित्तु 'केवलानन्तर्ययोर्णवरणवरी' इत्येकमेव सूत्रमाहुः । तन्मते उभावप्युभयार्थौ ॥ हंद गृहाणार्थे ॥ २।१।४७ ॥ हंदेति गृहाणार्थे वा प्रयोज्यम् । हद पोप्पं । गृहाण पुष्पम् ॥ हंदि विकल्पविषादसत्यनिश्चयपश्चात्तापेषु च ॥ २॥११४८॥ १ हं M. २ हमित्येतत् M. ३ आनन्तर्यमावश्यकम् M.; आनन्तर्यमवश्यम् R., T. ४ M. drops तु from केचित्तु. ५ भंद P. ६ भंदे P. ७ भंद P. ८ भंदि P. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy