________________
१४०
षड्भाषाचन्द्रिकायां पोस्तु सुणात्' इति वा बिन्दौ च बिन्द्वन्ताः सप्त । अबिन्द्वन्ताः सप्त । तुन्भं इत्यत्र त्रीणि । तुब्भ इत्यत्रापि तथैव । शिष्टैस्त्रिभिः सह त्रयोविंशतिः रूपाणि । ननु तुम्हाणमित्यत्र सूत्रे न ग्रहीतव्यम् । खभावत एव तद्रूपस्य निरूपयितुं शक्यत्वात् । तथाहि । युष्मद् आम् इति स्थिते अन्त्यहलो लोपे आमो णशि कृते 'अर्थपरे तो युष्मदि' इति यस्य तत्वे 'शिति दीर्घः' इति दीर्धे ष्मस्य म्हत्वे च सिध्यतीति सत्यमेव । तथापि सूत्रकृतां प्रवृत्तिर्विचित्रेति विज्ञापयितुं तद्ग्रहणमिति संतोष्टव्यम् । युष्माकम् ॥ ङौ 'डिहाभ्यां तुमए' इत्यादिना तुमए इत्योदय आदेशाः पञ्च 'तु तइ ङिप्ङसौ' इति डिपि यथाक्रमं प्राप्तस्तु इत्यादेश एकः । एवं षट् । तुमए । तुइ । तुए। तुमाइ । तुमे । तुम्मि । अत्र 'डेमिः' इति मिरेव न तुत्थादयः । सर्वनामत्वेप्यनदन्तत्वात् ॥ सुपि 'डिप्' इत्यनुवर्तमाने 'तुव तुम तुह तुब्भ' इति सूत्रेण युष्मदस्तुवादयश्चत्वार आदेशाः सुपि परे । तुवेसुं । तुवेसु । तुमेसुं । तुमेसु । तुहेसुं । तुहेसु । तुन्भेसुं । तुब्भेसु । तुम्हेसुं । तुम्हेसु । तुज्झेसुं । तुज्झेसु । अत्र 'भिस्भ्यः सुपि' इत्येत्वम् । 'तु तइ डिप्ङसौ' इति सुप्यपि तु इत्यादेशः । 'इदुतोर्दिः' इति दीर्घः । तासुं। तासु ॥
इति युष्मच्छब्दः ॥
अथास्मच्छब्दः।
अस्मत्सुना अम्हिहमहअमहमहम्म्यम्मि ॥२।३।१५॥
अस्मत् सुना सह अम्हि हं अहअं अहं अहम्मि अम्मि इति षडादेशानापद्यते । अम्हि । हं । अहअं । अहं । अहम्मि । अम्मि । अहमित्यर्थः ।। जसि
१ ज्ञापयितुं My., P. २ इत्याद्यादेशाः P., My. ३ सर्वनामशब्दत्वे P., My. ४ परेपि M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org