________________
युष्मच्छब्दः। तुब्भ तुम्ह तुज्झ इति त्रयः । इति त्रयाणामपि प्रत्येकं हिंतो इत्यादि षट् । एवं च ङसौ पूर्वसूत्रद्वयोक्तानि नव । तृतीयसूत्रोक्तानि षटूत्रिंशत् । मिलित्वा पञ्चचत्वारिंशद्रूपाणि । अत्र युष्मदोदन्तादेशपक्षे 'ङसिसो हि' 'उसेः श्लुक्' इति द्वयमप्युदाहार्यम् ॥ भ्यसि
उम्होयह तुयह तुब्भ भ्यसि ॥ २ । ३ । ११ ॥
युष्मद् भ्यसि परे उन्ह उयह तुम्ह तुम्भ इति चतुर आदेशानीमोति ॥ भ्यसस्तु यथाप्राप्तमेव । 'वा ब्भो म्हज्झौ' इति ताभ्यां योगे षट् । षण्णामप्यैकैकस्य नव रूपाणि । एवं भ्यसि चतुःपञ्चाशद्रूपाणि । एकस्य नव रूपाणि प्रदर्श्यन्ते । उम्हेहितो । उम्हाहितो । उम्हेसुंतो । उम्हासुंतो । उम्हेहि । उम्हाहि । उम्हत्तो । उम्हाओ । उम्हाउ । एवं उयह तुय्ह तुब्भ तुम्ह तुज्झ एप्वपि प्रत्येकं नव नव रूपाण्युदाहरणीयानि । अत्र सर्वत्र रामशब्दवद् दीर्धेत्वे ॥ ङसि तुब्भोभोव्हतइतुहंतुहतुम्हंतुवतुमतुमेतुमाइतुमोदेतेदितुइए उसा
॥२।३। १२ । युष्मद् ङसा सह तुब्भ उब्भ उयह तइ तुहं तुह तुम्हं तुव तुम तुमे तुमाइ तुमो दे ते दि तु इ ए इत्याष्टादशादेशानापद्यते । 'वाब्भो म्हज्झौ' इति ताभ्यां योगे चत्वारि। एवं मिलित्वा द्वाविंशतिः रूपाणि । ननु वा ब्भो म्हज्झौ' इत्यनेन तुंह इति रूपसिद्धावत्र सूत्रे पुनस्तुंहग्रहणं व्यर्थम् । छन्दोवत् सूत्राणीति सूत्राणां छन्दस्तुल्यत्वादभिप्रायापरिज्ञानात् । यद्वात्र शास्त्रे सर्वत्र बहुलाधिकारादत्र पुनस्तुहाभावमाशङ्क्य पुनस्तद्ग्रहणम् ॥ आमि तुम्हाण तुभं तुब्भाण तुमाण तुवाण तुहाण तुब्भ वो भे
त्वामा ॥२।३ । १३ ॥ युष्मद् आमा सह तुम्हाण तुब्भं तुब्भाण तुमाण तुवाण तुहाण तुब्भ वो भे त्वा इति दशादेशानापद्यते । म्हज्झाभ्यां योगे 'क्त्वासु___१°नापद्यते My., P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org