________________
युष्मच्छब्दः।
१३७
अथ युष्मच्छब्दः। अथ युष्मदस्मच्छब्दावलिङ्गाविति केचित् । अभिधेयवल्लिङ्गावित्यपरे । पक्षद्वयेपि रूपनिर्णयः समानः । युष्मद् सु इति स्थिते
युष्मत् सुना तुवं तुं तुमं तुह ॥ २ ॥ ३॥ १॥
युष्मच्छब्दः सुना सह तुवं तुं तुमं तुह इति चतुर आदेशानापद्यते । तुवं । तुं । तुमं । तुह । त्वमित्यस्त्येव सिद्धावस्थापेक्षया वलोपे तं इत्यपि ॥ युष्मद् जस् इति स्थिते
जसा भे तुब्भे तुम्हे उव्हे तुब्भ ॥२।३।३॥
युष्मच्छब्दो जसा सह मे इत्यादि पञ्चादेशानाप्नोति । भे। तुब्भे । तुम्हे । उय्हे । तुब्भ । यूयम् ।
वा ब्भो म्हज्झौ ॥२।३।१४ ॥
युष्मदादेशेषु द्विरुक्तभकारस्य म्हज्झ इत्यादेशौ वा भवतः । तुम्हे । तुज्झे । तुम्ह । तुज्झ । इति जैसि नैव रूपाणि ॥ अमि 'युष्मत् सुना तुवं तुं तुमं तुह' इत्य॑तः 'सुना' इत्यन्यदधिकृत्य
अमा तुमे तुए च ॥२।३।२॥
युष्मच्छब्दोमा सह तुमे तुए इत्यादेशौ चकारात् तुवं आदि चतुष्टयं चौपद्यते । तुमे । तुए । तुवं । तुं । तुमं । तुह । त्वामि त्यस्य सिद्धावस्थापेक्षाया वलोपे 'खरस्य बिन्द्वमि' इति हूखे तं इत्यपि भवति ॥ शसि 'जसा भे तुन्भे तुम्हे उरहे तुब्भ' इत्यतः 'जसा' इत्यन्यदनुवर्तमाने
शसा वो च ॥ २।३।४॥
युष्मच्छसा सह वो इति चकाराद् भे इत्यादीन् नवादेशांश्चापद्यते । वो । भे। तुम्हे । तुम्हे । तुज्झे । उय्हे । तुब्भ । तुम्ह । तुज्झ । तुब्भे ॥ १० ॥ युष्मान् ॥
१°त्येके R., T. २°नापद्यते My., P. ३ स्तः P., My. ४ T. drops जसि. ५ M. drops नव; T. has जसि after नवरूपाणि. ६ इत्यधिकृत्य M., R., T. ७ चाप्नोति My., P. ८ इत्यनुवर्तमाने M., R., T. ९ नुवर्तते P., My.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org