SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ हलन्ताः । १२३ शिरस् नभस् एतान् वर्जयित्वा । इति पुंलिङ्गतायां कर्मन् कम्मो नर्मन् नम्मो इत्यादि । रामवत् । जन्मन्शब्दस्य तु सक्खिणभवंतजम्मणमहंताः ॥१।१।३७॥ साक्ष्यादयः शब्दाः विहितान्त्यव्यञ्जनादेशा वा निपात्यन्ते । इति निपातात् जम्मणो। पक्षे । जम्मो ॥ भस्सन्शब्दे 'वात्मभस्मनि पः' इति स्तोर्वा पः । भप्पो । पत्वाभावे 'मनयाम्' इति मलोपे शेषद्वित्वे च भस्सो ॥ छद्मन्शब्दे 'वा च्छद्म-' इत्यादिना अन्त्यहलः प्रागुत्वे । छउमो । पक्षे । छम्मो । उभयत्रान्त्यहलो लोपः दलोपश्च ॥ श्लेष्मन्शब्दे 'श्लेष्मबृहस्पतौ तु फोः' इति द्वितीयस्य स्तोः फत्वे । सेफो । सिलेझो । अत्र 'लादक्लीबेषु' इति संयुक्तस्यान्त्यहलः प्रागित्वम् । 'श्मष्म-' इत्यादिना मादेशः । इन्नन्तेषु सर्वत्र नलोपे कविशब्दवत् । करी । करिणो । इत्यादि । मनखिन्शब्दे वक्रादिपाठाद् द्वितीयादचः परो बिन्दुः । मणंसी ॥ साक्षिन्शब्दस्य 'तु सक्खिण-' इत्यादिना निपातनात् सक्खिणो । पक्षे । सक्खी ।। पथिन्शब्दस्य 'मूषिकविभीतक-' इत्यादिना इतः अत्वम् । अन्त्यहलो लोपः । थस्य हत्वम् । पहो । पहा । इत्यादि । रामवत् ॥ झकारान्तोप्रसिद्धः ॥ भकारान्तः पुंल्लिङ्गः सुककुप्शब्दः । हः क्षुत्ककुभि ॥ १।१।३१॥ 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । क्षुत्ककुभोरन्त्यहलो हकारो भवति । लोपापवादः। सुककुहो। सुककुहा । इत्यादि । रामवत् ॥ घढान्तावप्रसिद्धौ। धकारान्तः पुंल्लिङ्गः तत्त्वभुत्शब्दः । अगागमः । तत्तबुहो। तत्तबुहा । इत्यादि । रामवत् । एवं सुयुत्सुसमित्प्रभृतयः ॥ जकारान्तः पुंल्लिङ्गो विश्वसृक्शब्दः । १ इति निपातात् is dropped in My., P. २ शेषद्वित्वे च is dropped in M., T. ३ इत्यनुवर्तते M. ४ M. drops तत्तबुहो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy