________________
षड्भाषाचन्द्रिकायां स्त्रियां नाम्नः परेषां टाङिङस् इत्येतेषां स्थाने अ आ इ ए इत्येते चत्वार आदेशाः शितो भवन्ति । पृथक्त्वान्नित्यम् । जाआअ । जाआइ । जाआए । अत्रापि शित्करणस्य इकारान्तस्त्रीलिङ्गेषु फलम् ।
नातः शा ॥२ । २ । ३६ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङिङसां प्राप्त शा इति र्शिदात्वमाकारान्तान्न भवति । इति प्रतिषेधादत्र शोकारस्योदाहरणं न संभवति ॥ भिसि जाआहिं । इत्यादि पूर्ववत् ॥ ङसौ
उसे श शा शि शे ॥२॥ २॥ ३४ ॥ 'शो शू स्त्रियाम्' इत्यतः 'स्त्रियाम्' इत्यनुवर्तते । स्त्रियां वर्तमानान्नाम्नः परस्य ङसेः अ आ इ ए इति चत्वार आदेशाः शितो भवन्ति ।। जाआअ । जाआआ । जाआइ । जाआए । अत्र सर्वत्र 'अपदे' इति प्रतिषेधान्न संधिः । पक्षे हिन्तोत्तोदोदवश्च । भ्यसि सुंतो च । जाआहिन्तो । इत्यादयः । पूर्ववत् । 'भिस्भ्यस्सुपि' ईति एत्वं न भवति । अनदन्तत्वात् । शेषं पूर्ववत् । एवं मालादयः ॥ जराशब्दस्य तु अनुक्तमन्यन्यायेन 'जराया जरसन्यतरस्याम्' इति यत्र यत्र जरसादेशस्तत्र तत्र 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यधिकृत्य
अविद्युति स्त्रियामाल् ॥१।१।२९ ॥ स्त्रीलिङ्गे वर्तमानस्यान्त्यहल आत्वं भवति । लित्वान्नित्यम् । इति सस्यात्वे जरआ । जरआओ । जैरआउ । इत्यादि । जायावत् । जरसभावे जरा इत्यादि । जायावत् । वृक्षत्वं कवित्वमित्यादौ त्वप्रत्ययस्य
त्वस्य तु डिमात्तणौ ॥२।१।१३ ॥
१ इत्येषां M. २ स्त्रीलिङ्गे परम् M. ३ प्राप्तः My., P. ४ शिदाकारः My., P. ५ शाप्रत्ययस्यो' My., P. ६ इत्येतेष्वेत्वं T., R. ७ M. drops one तत्र. ८ इत्यधिकृत्य M., R., T. ९°मात् T., R. १० जरआइ । My.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org