SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ षड्भाषाचन्द्रिकायां पीते ले वा ॥ १।३। ४५॥ पीते स्वार्थिक लकारे सति तोर्वकारो वा स्यात् । पीवलो । पीअलो' । 'ले' इति किम् । पीओ । अत्र 'खार्थे तु कश्च' इत्यधिकृत्य 'लो वा विद्युत्पीतयोः' इत्यनेन खार्थे वा लः ॥ ढः पृथिव्यौषधनिशीथे ॥१।३ । ४७ ॥ 'वा' इत्यनुवर्तते । एषु तवर्गस्य ढत्वं वा भवति । औषधगुणः । ओसढगुणो । पक्षे । ओसहगुणो । अत्र 'खघथधभाम्' इति हत्वम् । णिसीढो । णिसीहो । निशीथः ॥ ो दिना रुदिते ॥१।३। ४९ ॥ अत्र दिना दीत्यवयवेन सह णत्वं रिद्भवति । रित्वाद्वित्वम् । रुदितकरः । रुण्णअरो । णो वातिमुक्तके' इत्य॑तः णो वा' इत्यधिकृत्य गर्भिते ॥ १।३ । ५१॥ अत्र तवर्गस्य णत्वं भवति । गम्भिणो । गम्भिओ ॥ नः॥१।३ । ५२ ॥ 'णः' इत्यनुवर्तते । अस्तोरखोरचः परस्य नकारस्य णकारो भवति । मानवः । माणवो । ईशानः । ईसाणो । इत्यादि । आदेस्तु ॥ १।३। ५३ ॥ 'नः' इत्यनुवर्तते । आदेर्नकारस्य णो वा स्यात् । नरः । णरो। नरो । नतः । णओ । नओ । इत्यादि । अस्तोरित्येव । न्यायः । नाओ॥ नापिते हैंः ॥ १।३। ५४ ॥ १ M. has पीतः after पीअलो। २ R. and T. have 'पीते लो वा' इत्यतः before 'वा' इत्यनुवर्तते। ३ रिर्भवति । M. ४ इत्यधिकृत्य M. ५ भवति तु P., My. ६ माणवो । मानवः। M. ७ ईसाणो। ईशानः। M. ८ हः । T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy