________________
५७
श्रावक यो न्यदेशि सुगुरु: क्षेत्रेत्र सर्वोत्तमः
सेव्यः पुण्यवतां सतां सुचरण - ज्ञानश्रिया सत्तमः ॥ २९ ॥ " — राजगृहगिरिप्रशस्तौ । वि. सं. १४७३ - ९९ वर्षे जयसागरगणिः-तत्रान्यदा ज्ञान-दर्शन- चारित्रगुणैकभूमयः श्रीमदम्बिकोपासनोपलब्धकराक्षरश्रीनागदेवसुश्रावकविज्ञातप्रकटीकृतयुगप्रधानपदवीसरिन्महाब्धयस्त्रिभुवनातिशायिभागधेया नानाश्रुतरत्नाकराः क्वचित् तथाविधदुष्टरोगव्यन्तरादिदोषदूषितं धार्मिकजनमुद्वीक्ष्याक्षामकारुण्यवेिवशमनसः श्रीजिनदत्तसूरयो दोषप्रतिक्रियाकरणदक्षं तत्तादृक्षदेवदेवताप्रणिधानप्रत्यस्तप्रतिपक्षं हितैषिमनीषिमनुजकण्ठकन्दलीविमलस्रगनुकारं ' तं जयउ ' इति लोकप्रसिद्धनामावतारं जागरूका स्तोकप्रभावप्राग्भारं श्रीविधिसङ्करक्षाऽर्थे स्मरणास्तवं विरचितवन्तः।” - जिनदत्तसूरीयस्मरणस्तववृत्तौ ।
८८
" इह हि पुरा नागदेवसुश्रावक युग प्रधानजिज्ञासाविहितसप्तोपवाससन्तुष्टोज्जयन्तनिवासिश्रीअम्बिकादेवता तत् ह (इ) स्तलिखितेतराचार्याज्ञेयलिपिरूपाक्षरवाचनोत्पुसनप्रकार प्रकटितयुग प्रधानभावा ज्ञान - दर्शन - चारित्रागण्यपुण्यातिशयसत्त्वरञ्जितश्रशिासनदेवतावितीर्णोज्जयिनी स्थित महाकालंप्रासादमध्यवर्तिशैलमय भार पट्टवी टकान्तः संगोपित - पुराश्रीसिद्धसेनदिवाकरवाचित-दशपूर्वधरश्रीकालिकसूरिविरचितानेकाद्भुतश्रीप्रथमानुयोगसि-द्धान्तपुस्तकरत्नार्थसम्यक्परिज्ञानजगद्विदित महाप्रभावा निजप्रातिभवैभवविस्मापित-देवसूरयः श्रीजिनदत्तमूरयो लोकप्रतिबोधार्थी सुविहितविहारेण विहरन्तोऽन्यदा रोगाद्युपद्रवोपशमार्थं च सुगुरुजनपारतन्त्र्यस्तवरूपं स्मरणं महाप्रभावं ' मयरहियं ' इति प्रसिद्धं चिकीर्षवः × × × ।
"
— जिनदत्तसूरीयगुरुपारतन्त्र्यस्तवर्वृत्तौ ।
१
श्रीजिनवर्धनसूविचनामृतपायिवाचनाचार्य जयसागरगणिना विरचिता स्मरणस्तववृत्तिः । ' इति प्रान्ते पठ्यते । C.
जय सागरगणिपरिचय जे. भां. सूच्यामप्रसिद्धग्रन्थग्रन्थकृत्परिचये (पृ. ५४ ) स्माभिरकारि ।
(
२ वृत्तिप्रान्ते ' श्रीप्तागरचन्द्रसूरिप्रसादात् ' इत्युलेखदर्शनेनानुमीयते वि. सं. १४५९ वर्षे जिनराजसूरिनिदेशाज्जेसलमेरुदुर्गे लक्ष्मणराज्ये खरतरसङ्घकारिते जिनप्रासादे गर्भगृहे पार्श्वजिनबिम्बस्थापकोऽयं सागरचन्द्रसूरिः स्याद् यस्य सुरेर्मूर्तिरद्यापि तत्र दृश्यते । तत्प्रासादप्रशस्तिशोधकेन जयसागरगणिना (जे. सूची पृ. ५४,६३ ) एषा वृत्तिः कृता सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org