SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 'वि. सं. १४११ वर्षे तरुणप्रभसूारः * तदीयपादद्वयपद्मसेवामधुव्रतः श्रीजिनवल्लभोऽभूत् । यदङ्गरङ्गे व्रतनर्तकेन किं नृत्यता कीर्तिधनं न लेभे ? ।। -श्रावकप्रतिक्रमणसूत्रविवरणे (प्रश० श्लो० ३) 'वि. सं. १४१२ वर्षे भुवनहितोपाध्यायः"............जिनवल्लभ........शांगनावल्लभो............प्रियः यदीयगुणगौरवं श्रुतिपुटेन सौ(सु)धोपमं निपीय । शिरसोधुनापि कुरुते न कस्तांडवं ? ॥ २० ॥" ----जैनलेखसङ्घन्हे (पू० नाहरसंगृहीते ख० १, पृ० ६०) 'वि. सं. १४२२ वर्षे सङ्घतिलकाचार्यः .*तत्पट्टपूर्वाचलचूलिकायां भास्वानिव श्रीजिनवल्लभाख्यः । सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥" -सम्यक्त्वसप्ततिवृत्तौ ( प्रश० श्लो० ३) वि. सं. १४२९ (१) वर्षे सोमतिलकसूरिः-- “ संविग्नचूडामणयो न केषां स्युर्वल्लभाः श्रीजिनवल्लभास्ते । मूर्ताऽपि यद्गी विनाममूर्तमात्मानमुत्तुङ्गगुणैः ससञ्ज ॥" -शीलोपदेशमालावृत्तौ शीलतरङ्गिण्याम् ( प्रश० श्लो० ३ ) *वि. सं. १४२९ वर्षे देवेन्द्रसूरिः" *तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनाऽपि दन्ध्वन्यते जगति ॥" -प्रश्नोत्तररत्नमालावृत्तौ ( प्रश० श्लो० ५) १ शशि-शशि-वेदेन्दुमिते संवति सति पत्तने महानगरे । दीपोत्सवे च लिलेख सुगमां दिनकृत्यविवृतिरि(?म)यम् ॥ -श्रा. प्र. सू. वि (प्रश० श्लो० १३) २ नयन-चंद्र-पयोनिधि-भूमिते व्रजति विक्रमभूभृदनेहसि । बहलषष्ठीदिने शुचिमासगे महीमचीकरदेवमयं सुधीः ॥-जै० ले० सं० (पृ० ६२) ३ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततः। श्रीमद्विक्रमवत्सरे द्वि-नयनाम्भोधि क्षपाकृत्प्रमे श्रीसारस्वतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ -स० स० वृ० । ४ तस्यानुजेन देवेन्द्रसूरिणा विक्रमार्कतः । नन्द-युग्म-पयोराशि-शशाङ्कप्रमवत्सरे ॥ प्रश्नोत्तररत्नमालाया वृत्तिर्विदधे मुदा । शोधिता च लसद्भद्रैः श्रीमुनिभद्रसूरिभिः ॥ -प्र. र. वृ. (प्रश० श्लो० १७-१८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy