________________
[जिनदत्तसूरिविरचितं
[ यो जन: शुभगुरुदृष्ट्या दृष्टः तस्य किल किं करोति यमो रुष्टः ? । यस्य परमेष्ठिमन्त्रो मनसि निवसति ।
स दुःखमध्ये कदापि न प्रविशति ॥ ३१ ॥ ] व्या०-प्रकृतोऽर्थः प्रकटः । द्वितीयस्तु किञ्चिदुच्यते । यः किल शुभगुरुदृष्ट्या ज्योतिःशास्त्रोक्तशोभनस्थानवर्तिनो गुरोबृहस्पतेर्दष्ट्या दृष्टो लग्नद्वारेण, तस्य किं करोति यमः शनैश्वरः द्वादशजन्मद्वितीयादिस्थानस्थः ? ॥ ३१ ॥
इदानीमुपसंहरतिइय जिण दत्तुवएसु जि निसूणहि पढहि गुणहि परियाणवि जि कुणहि । ते निवाण-रमणी सहु विलसहि वलिउ न संसारिण सहु मिलिसिहि ॥ ३२ ॥ [ इति जिनदत्तोपदेशं ये निशण्वन्ति पठन्ति गुणयन्ति परिज्ञाय ये कुर्वन्ति । ते निर्वाणरमण्या सह विलसन्ति वलित्वा न संसारेण सह मिलिष्यन्ति ॥ ३२ ॥]
कालस्वरूपकुलकं समाप्तमिति । व्या०-इति पूर्वोक्तेन प्रकारेण जिनरहभिर्दत्तो वितीर्णो य उपदेशः कृत्याकृत्यविधिनिषेधरूपस्तम् । अथ च जिनदत्तसूरिरिति कवेर्नाम । ये निशण्वन्ति नियमेनाकर्णयन्ति, पठन्ति अधीयते, गुणयन्ति अभ्यस्यन्ति, परिज्ञाय विदित्वा ये कुर्वन्ति अनुतिष्ठन्ति; ते निर्वाणरमण्या मुक्तिकान्तया सह विलसन्ति क्रीडन्ति । वलित्वा व्याघुट्य न संसारेण सह मिलिष्यन्ति संगंस्यन्ते भव-तरुबीज-कर्माभावादिति भावः ॥ ३२ ॥
सूरमभोऽभिषेकः श्रीजिनपतिमूरिपदकमलभृङ्गः । व्यावृत द्वात्रिंशतमल्पमेधसां किमपि बोधाय ॥ १ ॥ कालस्वरूपकुलकं व्याख्याय यदर्जितं मया पुण्यम् । तेनास्तु भव्यलोकः सकलोऽपि विधिप्रबोधरतः ॥ २॥
इति कालस्वरूपकुलकविवरणं समाप्तम् ॥३॥ई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org