________________
कालस्वरूपकुलकम् ]
[ मोहनिद्रया जनः सुप्तो न जागर्ति तेनोत्थाय शिवमार्गे न लगति । यदि सुहस्तः ( सुखार्थ, शुभार्थं ) कोऽपि गुरुर्जागरयति
तथापि तद्वचनं तस्य नैव भाति ॥ ५ ॥] व्या-मोहनिद्रया सुप्तो जनो न जागर्ति । तेन कारणेनोत्थाय मोक्षमार्गे न लगति । यदि कश्चिद् गुरुः सुहस्तः शुभाथै सुखार्थ वा जागरयति मोहनिद्रापगमेन प्रबोधयति, ततस्तद्वचो गुरुवचनं तस्य जनस्य नापि नैव भाति रोचत इत्यर्थः ॥ ५ ॥ इदानी लघुकर्मणां गुरुवचनानुष्ठायिनां गुणमाह
परमत्थिण ते सुत्त वि जग्गहि सुगुरु-वयणि जे उठेवि लग्गहिं । राग होस मोह वि जे गंजहि सिद्धि-पुरंधि ति निच्छइ भुंजहि ॥६॥ [ परमार्थेन ते सुप्ता अपि जाग्रति सुगुरुवचने ये उत्थाय लगन्ति । राग-द्वेष-मोहानपि येऽभिभवन्ति
सिद्धिपुरन्ध्रीं ते निश्चयेन भुञ्जते ॥ ६ ॥] व्या०-परमार्थेन तत्त्वतः सुप्ता अपि द्रव्यनिद्रया, मोहनिद्राऽभावेन जाग्रति ये सुगुरुवचने उत्थाय लगन्ति तत्त्वबुद्धया सज्जन्ते आसक्ता भवन्तीत्यर्थः। किं पुनर्गुरुवचनसर्वस्वं किं वा तदनुष्ठानस्य परमं फलमित्याह-'रागेत्यादि' राग-द्वेष-मोहानपि अभिभवन्ति, ते सिद्धिपुरन्ध्री निश्चयेन भुजते ॥ ६ ॥
इदानी स्वयूथ्यसमुत्थमिथ्यात्वनिर्मन्थनायाह-- बहु य लोय लुंचियसिर दीसहिं पर राग-द्दोसिहि सहं विलसहि । पढहिं गुणहि सत्थइ वक्खाणहि परि परमत्थु तित्थु सुन जाणहि ॥७॥ [बहवो लोका लुञ्चितशिरसो दृश्यन्ते परं राग-द्वेषाभ्यां सह विलसन्ति । पठन्ति गुणयन्ति शास्त्राणि व्याख्यानयन्ति परं परमार्थस्तत्र तं न जानन्ति ॥ ७ ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org