________________
उपदेशरसायनरासः ]
प्रभूतमानुषं स्वकुटुम्ब निर्वाहयति कश्चित्, परं कृपणतया धर्मप्रयोजने देवसाधुदानादावदित्सयाऽधोदृष्टिरेव भवति । तेन सम्यक्त्वस्य जिन-साधुभक्तिव्यङ्ग्यस्य जलाञ्जलिर्दत्तस्तन्नूनं तस्य भवभ्रमणे मतिरद्यापि न निर्विन्ने(पणे) त्यर्थः ।। ६७ ॥
सधणु सजाइ जु जि तसु भत्तउ अन्नह सदिष्टिहि वि विरत्तउ । जे जिणसासणि हुंति पवना ते सवि बंधवं नेहपवना ॥ ६८॥ [ सधनः सजातिय एव तस्य भक्तो। ऽन्यस्मात् सदृष्टेरपि विरक्तः । ये जिनशासनं भवन्ति प्रपन्ना
स्ते सर्वे बान्धवाः स्नेहप्रपन्नाः ॥ ६८ ॥] साधर्मिको यः सधनः स्वजनो वा तत्रैव भक्तः, अन्यस्मात् सदृष्टेरपि प्रधानश्रावकादपि विरक्तः । अयुक्तं चैतत् यतो ये जिनशासनं भवन्ति प्रतिपनास्ते सर्वेऽपि बान्धवा एव स्नेहप्रतिपन्ना इत्यर्थः ।। ६८ ।।
तसु संमत्तु होइ किव मुद्धह ? जो नवि वयणि विलग्गइ बुद्धह । तिनि चयारि छुत्तिदिण रक्खइ स जि सरावी लग्गइ लिक्खइ ॥ ६९ ॥ [ तस्य सम्यक्त्वं भवति कथं मुग्धस्य ? यो नैव वचने विलगति बुद्धानाम् । त्रीणि चत्वारि छुप्तिदिनानि रक्षति
सैव श्राविका लगति लेख्यके ॥ ६९ ॥] तस्य सम्यक्त्वं कथं भवति मुग्धस्य ? यो नैव वचने (१) सहधमियरा मह बंधवा' इत्येवंरूपे विशेषेण लगति बुद्धानां तीर्थकराणाम् । अथात्रैव श्राविकाशिक्षामाह-त्रीणि चत्वारि वा दिनानि छुप्तिं रक्षति मृद्भाण्डादिस्पर्शवजनेन, विशेषतश्च साधु-जिनालयगमनवर्जनेन च या; सैव श्राविका लेख्यके सुश्राविकागणनायां गण्यते । छप्तयश्चाशौचविशेषा एवं लोके श्रूयन्ते
" जात-मृत-सूतकदिने रजस्वला-वमन-मूत्र-विष्टासु ।
मद्ये चण्डालादौ स्युः सप्त छुप्तयो लोके ॥” इत्यर्थः ॥ ६९ ॥ (१)सहधर्मकरा मम बान्धवाः । १ क. स. । २ ग, बंधवा । ३ क. पयारि । ४ क. हरा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org