________________
( २ ) जिनदत्तसूरिविरचितो जिनपालोपाध्यायविहितवृत्तियुत उपदेश (धर्म) रसायनरासः ।
श्रीरं जिनपतिं नौमि यद्वचो मधुरं बुधाः । रसायनमिवास्वाद्य बभूवुरजरामराः ॥ १ ॥ चरी - रासकप्रख्ये प्रबन्धे प्राकृते किल । वृत्तिप्रवृत्तिं नाधन्ते प्रायः कोऽपि विचक्षणः ॥ २ ॥ किन्तु क्वचित् कचित् किञ्चिदुपदेशरसायने । पदं दुर्बोधमित्येष न्याय्यो व्याख्यापरिश्रमः ॥ ३॥ अत्र पद्धटिकाबन्धे मात्राः षोडश पाद्गाः ।
अयं सर्वेषु रागेषु गीयते गीतिकोविदैः ॥ ४ ॥
-श्रावक
इह हि युगप्रधानागमैः श्रीमद्भिर्जिनदत्तसूरिभिर्लोकप्रवाहपतितान् बहून् जन्तूनुपलभ्य तदुपचिकीर्षया लोकप्रवाह - सद्गुरुस्वरूप- चैत्यविधिविशेष-श्राविकादिशिक्षाविशेषप्रतिपादकः प्राकृतभाषया धर्मरसायनाख्यो रासकश्चक्रे । स च मन्दबुद्धिनाऽपि मया किञ्चिद् व्याख्यायते । तस्येदमादिसूत्रम् — पणमह पास - वीरजिण भाविण तुम्हि सव्वि जिव मुच्चहु पाविण । घरववहारि म लग्गा अच्छह
खाणि खणि आज गलंत 'पिच्छह ॥ १ ॥
[ प्रणमत पार्श्व - वीरजिनौ भावन
यूयं सर्वे जीवा मुच्यध्वं पापेन ।
गृहव्यवहारे मा लग्नास्तिष्ठथ
क्षणे क्षणे आयुर्गलत् प्रेक्षध्वम् ॥ १ ॥ ]
प्रणमत नमस्कुरुत भो भव्याः ! पार्श्व - वीरावुपान्त्यान्त्यरूपौ जिनौ तीर्थकरौ भावेन शुभाध्यवसायेन ' तुम्हि त्ति' यूयं सर्वे समस्ता अपि । अथ तत्प्रणामफलमाह-यथा यूयं पापेन कल्मषेण मुच्यध्वं त्यक्ता भवथ । इष्टदेवतास्तवमभिधायाथ
१ ख. चचरी । २ क. अथ । ३ क. विशेषश्राविका । ४ क. अच्छहु । ५ क. पिच्छउ ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org