________________
*68
रत्नप्रभसूरिविरचिता [IV. F4 : Verse 161 तस्मिंस्तादृशे संसारचक्रचित्रपटे प्रत्यक्षीकृते मया चिन्तितम् । 'अहो, कष्टं संसारवासः । दुर्गमो मोक्ष- 1 मार्गः। अत्यन्तदुःखिताःप्राणिनः। विषमा कर्मगतिःस्नेहनिबिडनिगडसंदानितो मूढजनः। अशचिमयः कायः । विषमिव विषयसुखम् । साक्षादेवैष जीवसार्थो महासागरनिमग्नः ।' इति चिन्तयता मया 3 भणितम् । 'अहो, त्वयायं यदि चित्रपटो लिखितस्ततो न मनुष्यस्त्वम् , अनेन दिव्यचित्रपटप्रकारेण किमपि कारणान्तरं चिन्तयन् त्वं देवो देवलोकतः समागतः।' इति च वदता मया तस्यैकस्मिन् पार्श्वे 6 ऽपरं चित्रपटं दृष्टा प्रोक्तम्। 'अहो उपाध्याय, पुनरेव ततः संसारचक्रतो व्यतिरिक्तश्चित्रपटो ऽयम्, ततो 6
ममायमपि प्रत्यक्षीक्रियताम् ।' इदमाकर्ण्य कलाचार्येण भणितम् । 'कुमार, मयैव लिखितमेतद्वयोर्वणिजोश्चरितं विभक्तस्वरूपं पश्यतु भवान् । एषा चम्पापुरीति लिखिता। अत्रैष महाराजो महारथः । अत्र 9 च धनी धनमित्रो नाम वणिम्। तस्य भार्या देवीति । तयोस्तनुजौ द्वौ धन मित्रकुलमित्रौ।तजन्मानन्तरं 9 तदात्वमेव पिता पञ्चत्वमुपागतः। सर्वो ऽप्यों निधनमियाय । ततस्तौ मात्रा कष्टेन वृद्धिमानीतो यौवन
मवापतुः । जनन्या निगदितम् । 'भवन्तौ व्यवसायं कुरुताम् ।' ततस्तौ वाणिज्यकृषिपरमन्दिरकर्मकर12 वृत्तिप्रतिगृहप्रार्थनारत्नाकरसमुल्लङ्घनरोहणपर्वतारोहणानवरतखानिखननधातुवादद्यूतक्रीडनस्वामिसे- 12
वाप्रवृत्तिविवरयक्षिणीसमाराधनगुरूपदिष्टमन्त्रसाधनप्रभृतिभिः प्रकारैर्धनोपार्जनार्थ ताम्यतः.परंवराटि
काया अपि नोत्पत्तिः। 18 $५) ततो ऽतीवदुःखितौ ताविति संकल्पपरौ बभूवतुः। 'धिर धिर जीवितमस्माकम् । यः को 15
ऽप्युपायः प्रारभ्यते स सर्वो ऽपि पूर्वकृतदुष्कृतवशेन वालुकापिण्डकलनमिव खलप्रीतिप्राग्भार इवाजलिकृतजलसंघात इव समीरप्रेरितजीमूतपद्धतिरिव विलयमायाति । कथमनेन दैवेनावामेवाभाग्यभाजनं 18 विहितौ । इदमपि दैवं सर्वेषामप्यन्येषामनवमम् , परमावयोरवममेव । तावत्सर्वथैवालममुना जीवितेन18 सर्वथा दुःखनिकरमन्दिरेण । अथ कस्मिंश्चिदुच्चशिलोचयशिखरमारुह्यात्मानं मुश्चावः' इत्यालोच्य तो तच्छिखरमारुह्येवं प्रोचतुः। 'भोः पर्वत, तव शिखरपतनसाहसेनावामनेतनभवे दारिद्यदुःखभाजनं न भवावः।' इत्युदित्वा तौ युगपदेव यावदात्मानं मुञ्चतस्तावत्तयोः 'मा साहसं मा साहसं' इति ध्वनिः21 श्रवणाध्वनि पपात । तं निशम्य ताभ्यां सर्वतो दिशः पश्यस्यां साधुं कायोत्सर्गस्थितं निरीक्ष्य भक्त्या प्रणिपत्य प्रोचे । 'परमेश्वर मुनीश्वर, भवतावां मृत्युतः कथं निषेधितौ।' मुनिनापि ततः प्रोक्तम् । 24"युवयोः किं वैराग्यकारणम् ।' ताभ्यामुक्तम् । 'भगवन्, आवयोर्दरिद्रतैव वैराग्यहेतुर्नान्यत् ।' साधुना-24 प्यभ्यधायि । 'भो पण्याजीवौ, भवन्तौ निर्वेदं कृत्वा मा प्राणत्यागं तनुताम् ।' ताभ्यामुदितम् । 'भो यतीश, कथय कथं जन्मान्तरेऽपि न दारिद्यं पुनरावयो।' भगवता भणितम् । 'यदि भवन्तौ दीक्षाम27 जीकृत्य तपः समाचरतस्तदेवंविधदुःखभाजनं भूयो ऽपि न भवतः। ताभ्यामुक्तम् । 'एवं प्रसादः क्रिय-27 ताम् । ततस्तेन मुनिना जैनविधिना कुमार, तयोः प्रवज्या दत्ता । इमौ तौ प्रवजितौ मया चित्रपटे लिखितौ। ततस्तो दुश्चरितं तपस्तत्वा समाधिना मृत्वा देवभवमुपाजग्मतुः । तयोः पुनरेक आयुषि क्षय30 मीयुषि स्वर्गतश्युत्वा पारापुयाँ सिंहभूपतेः सुतो भानुनामा संजातः । स चात्रोद्याने त्वम् । यः पुन- 30 द्धितीयो वणिग्जीवः स चाहम् । इमं चित्रपटं समालिख्य भवतः प्रतिबोधार्थमिहागतः । तावद्भो भानु
कुमार, प्रतिबुद्ध्यस्व मा मुहः, भीम एष भवाम्बुधिः, तरला कमला, हस्तप्राप्या विपत्तयः, दुःसहं दारिद्यम्' 33 इदमाकर्ण्य ऊहापोहं कुर्वाणः सहसैव मूञ्छितो भानुकुमारः। स्मृता जातिः। परिजनेन वयस्यैश्च शीतल- 33 जलकदलीदलपवनादिभिः समाश्वासितः । ततः संजातस्वस्थचेतसा भानुनानुभूतं पूर्ववृत्तं विलोक्य
भणितम् । 36 'सर्वथा त्वं गरुर्नाथ त्वमेव शरणं मम । येन त्वयाधना जैनाध्वनि प्रीन्यास्मि रोपितः॥१६॥ 36
६) एवं वदस्तच्चरणशुश्रूषापरायणः क्षणमेकं यावदभवं तावदुपाध्यायः पताकाराजिगजिते विविधासपत्नरत्ननिर्मिते विमाने मणिकुण्डलगलस्थलसमुच्छलदतुच्छ देहदीया दश दिशः प्रकाशयन्तं 39 वरमुकुटविराजमानं विमानसंस्थितमात्मानं प्रकटीकृत्य जगाद । 'भो भानु कुमार, दृष्टस्त्वयष संसार- 39 महीचऋविस्तारः। ततो मया तन्निरीक्षणसंजातवैराग्येण स्मृतपूर्वभवेन देवस्य पुरस्तत्क्षणमेवाभरणानि विमुच्य स्वयं विनिर्मितोत्तमाङ्गपञ्चमुष्टिकलोचस्तहेवार्पितरजोहरणमुखवस्त्रिकाप्रतिग्रहायपधिर
6) पुनरेतत्संसार. 16) 0 पिण्डक[व]लनमिव. 40) B संसारमहाचक'.
) । 'खरभारूढा एवं. 31 ) : Gi, tv, Mom दश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org