________________
-IV. 4 : Verse 151 कुवलयमालाकया ४
.67 पहेण मम जलबहिःक्षिप्तमत्स्यस्येव क्षणमात्रमपिन सुखावकाशः, तथा तव मातुःपुरीजनस्य च । अतस्त्वया 1 स्वरितमागत्य निजदर्शनपाथसापाथोदेनेव पादपोवियोगतप्तोऽहं निर्वाप्यः' इति । कुमारेण जगदे। 'प्रिये, अस्माकमेष गुरुनियोगस्तत् किं कर्तव्यम् ।' तथोक्तम् । 'यत्तुभ्यं रोचते तदाचरणीयमेव ।' ततः कुमार: 3 समुत्थाय महेन्द्रण साकं श्रीविजयसेनमिति विशपयामास । 'देव, ममायातस्य बहवो दिवसा अभवन् , उत्कण्ठितौ च पितरौ, अतःप्रसादं विधाय मां प्रेषयत ।' ततो नृपतिना विसृष्टः सांवत्सरेण निवेदिते माहुते कुमारः कृतमाङ्गल्यविधिर्वहन्नासिकादत्तानपादो निर्मितजिननमस्कृतिर्जयकुञ्जरं गजमारुह्यानेकसे- 6 वकलोकपरिकलितो महेन्द्रेण सह प्रमुदितचित्तःपुरीतो निर्गत्य बाह्यभुवि प्रस्थानमङ्गलं विदधे। ६२) साप्यथो मातरं नत्वा तत्त्वालोकनबद्धधीपूर्णा हर्षविषादाभ्यां प्रोवाच नृपतेः सुता ॥१॥ देहच्छायेव देहेन पत्या यास्याम्यहं सह । मातस्त्वदंहिसेवाया वियोगस्तु सुदुःसहः॥२॥ मद्रोपिता लता मातर्विना जलनिषेचनम् । पाण्डिमानमुपेष्यन्ति यथा प्रोषितयोषितः॥३॥ मातर्मदीयविरहे कलापकलितः किल । कलापी तालसुभगं केनायं नर्तयिष्यते ॥ ४॥ जनन्युवाच किं वत्से धत्से खेदं स्वचेतसि । नरेश्वरसुता यत्त्वं दृढवर्मसुतप्रिया ॥ ५॥ 12 तत्पुत्रि मा कृथाः खेदं हर्षस्थाने ऽस्य का क्षणः। स्वधुनीस्तानसंप्राप्ती को हि पङ्के निमज्जति ॥६॥ इत्युक्त्वा तनुजां कोडं स्वमारोप्य सबाष्पडक । चुम्बित्वा च शिरोदेशे जनन्येवमशिक्षयत् ॥७॥ वत्से चेत्त्वं गुणश्रेणिमीहसे स्वस्य सर्वदा। तद्भर्तृमन्दिरप्राप्ता ब्रूयाः प्रियमसंशयम् ॥ ८॥ 16 कार्य श्वश्रूप्रभृतिषु गौरवाहेषु गौरवम् । त्वयानुकूलया भाव्यं सपत्नीष्वपि संततम् ॥९॥ तदपत्यानि दृश्यानि निजानीवाश्रितेषु च । कृपा कार्या न तु क्वापि गर्वः सर्वप्रतीपकः ॥ १०॥ भुक्ते भर्तरि भोक्तव्यं स्वयं च शयिते सति । नीचैलोचनया स्थेयं नीरङ्गीस्थगितास्यया ॥ ११ ॥ 18 दुखिते दु:खिता पत्यो सुखिते मुखिता भवेः। कोपवत्यपि मा कोपं विदधीथाः कदाचन ॥ १२॥
कदापि पतिपादारविन्दद्वयविलोकनम् । न हेयं सर्वदा सर्वसतीमार्गो ऽयमद्भुतः॥१३॥ 21 ६३) इति शिक्षा शिरसि चारोप्य पितरौ प्रणम्य परिजनमभिपृच्छय कुवलयमाला ततः कुमारान्ति-21 कमागताततोऽन्यदिने कुमारः कुवलयमालया समं प्रचलितःसन् जातानुकुलपवन:श्रुतवामखरस्वरः
सब्यसमुत्तीर्णकवर्णशुनकः सर्वत्र समुच्चारितचारुवचनो व्यचिन्तयदिति । 'भगवति प्रवचनदेवते, यदि 24 तातं निरामयं पश्यामि राज्यं च प्राप्नोमि परिवर्धते सम्यक्त्वं [तदा] कुवलयमालया समं प्रवज्यामा-34 भयामि, तद्दिव्यज्ञानेन परिज्ञाय तादृशमुत्तमं शकुनं देहि, येन मे निर्वृतिः स्यात् ।' इति यावञ्चिन्तयअस्ति तावत्पुरस्तस्य मणिकनकनिर्मितं प्रलम्बितमुक्तावचूलमातपत्रं केनाप्युपनीय विज्ञप्तम् । 'देव, अस्य भूपस्य जयन्तीपुरीपतिज्येष्ठो भ्राता जयन्ताभिधो वसुधाधवः । तेन त्वद्धतवे देवताकृताधिष्ठानं छत्ररत 27 प्रेषितम्' इति । कुमारेण चिन्तितम् । 'अहो, प्रवचनदेव्याःप्रभावः, येन प्रथममेव प्रधानं शकुनम्' इति ध्यात्वा तच्च स्वीकृत्य कुमारो राज्ञा पौरजनेन चानुगम्यमानो महता सैन्येन परिवृतः कियती भुवं परि30गतः प्रोवाच । 'महाराज, व्यावृत्य धवलगृहमलंक्रियताम् । पौरजनाश्च निवर्तध्वम् , यतो दूरे भवति 30 विजयापुरी। ततस्तेषु व्यावृत्तेषु कुमारः सपरीवारोगन्छन् कतिपयैरपि प्रयाणकैः सह्यशैलसमीपं संप्राप।
अत्रान्तरे केनाप्यागत्य विक्षप्तम्। 'नाथ, अत्र सरस्तीरे देवायतने महामुनिरेको ऽस्ति'। इत्याकय कुमारः 33 कुवलयमालया समं तत्र गत्वा मुनि नत्वा सविनयं जगाद । 'भगवन् ,भवन्तः स्वीकृतनवव्रता इव विभाव-33 यामस्तत्र को हेतुः। ततो मुनिमतल्लिका निवेदितुमारेमे ।
समस्ति लाटदेशान्तः पारापुर्या नरेश्वरः । सिंहः प्राज्यतमस्थामा भानुनामास्ति तत्सुतः ॥ १४ ॥ चित्रकर्मप्रियः प्रायः सोऽहं क्रीडनकौतुकी । अन्यदा तत्पुरीबाह्योद्यानभूमिमुपागतः ॥ १५॥ 36
६४) तत्र च विचरता मया कलाचार्य एको दृष्टः। तेनोक्तम्। 'कुमार, चित्रपटममुं मल्लिखितं निरीक्ष्य निवेद्यतां यदयं रम्यो न वा' इति । ततस्तदालोकनेन मया चिन्तितम् । 'तत्किमपि पृथिव्यां नास्ति यदा 39न लिखितमस्ति' इति विस्मयस्मेरमानसं मा निरीक्ष्य तेनोक्तम् । 'कुमार, मयात्र सकलमपि संसार-39 विस्तारस्वरूपं चित्रितमस्ति, यन्मनुष्यजन्मनि यत्तिर्यग्भवे यन्नरके यत्रिदिवे विविधं दुःखं सुखं चानुभूतं तत्सर्वमप्यस्ति, अत्र तावन्मोक्षोऽपि, यत्र न जरान मृत्युन व्याधिन चाधिः।' एवं कुमार, तेन निवेदिते
26)
3) Bom. इति. 6) -निवृति:. 29) कियंती
श्रुतप्रसाद for अतः साद. 16) B मंदिरं प्राप्ता. 24) Pom. च, PB om. [तदा) 33) Badds इति (on the margin) after इव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org