________________
☐ 60
रत्नप्रभसूरिविरचिता
[ III. 853: Verse 8891 प्रतिपन्नम्, परमेको मन्त्री तथैकश्चिकित्सक एका भुजकलिकजननी तद्वचो नामन्यन्त । ततस्त्रिभिरेक- 1 त्यानपेक्ष्य परलोकमवगणय्य विमानं मम किमपि तदौषधमदायि, येन तदैव मम ग्रहिलत्वमुत्पेदे । अहं च कदाचिदिग्वासाः कदाचित्प्रावृताङ्गः कदाचिद्धूलीधवलित देहः कदाचिद्गृहीतकर कर्परखण्डः सर्वत्र 3 परिभ्रममाणो ऽत्र विन्ध्य गिरिशिखरि कुहरान्तराले क्षुधातृषाकान्तः पर्वतनदीषु सल्लकी हरीतकी तमालामलकदलफलप्राग्भारकषायितं तोयं वारत्रयं पीत्वा सर्वत्र दोषविप्रमुक्तः क्रमेण सावधानो ऽभवमिति । 6 ततः स्वस्थ वेतसा मया क्षुधार्तेन पुष्पफलेभ्यः स्पृहयालुनानेकभिल्लजनान्तस्थः प्रवररूपः पुरुष एको 6 दद्दशे । तेनाहमिमां पल्लीमानीतः । ततो वारवनिताजनेनावां स्नानं कारितौ । अथो देवतायतने मया तेन समं भगवान् जिनः प्रणतः । तथा भोजनमण्डपे यथारुचि आवाभ्यां भोजनं विदधे । ततः सुखासीनेन 9 तेन जल्पितम् । 'भो भद्र, निवेदय केन हेतुनामुष्यामटव्यां निर्मानुषायां भवत्समागमः, कुतो जिनवचन- 9 प्राप्तिः' इति । मयोक्तम् । 'रत्नपुर्या रत्नमुकुट नरेन्द्रस्य सूनुर्दर्पफलिकनामाहम् । स च मम पिता प्रत्येकबुद्धो ऽभवदिति । ततः स्वीकृतजिनधर्मो ऽहमपि कर्मवशत एतस्यां पल्यामागतः । तेनोक्तम् । 'यदि 12 भवान् सोमवंशसंभवो रत्नमुकुटनरेन्द्र पुत्रस्ततः सुन्दरमजायत, यत आवयोरेक एव वंशः । ततस्त्वं 12 राज्यं स्वीकुरु ।' ततस्तेन पल्लीपतिना सर्वपल्लीपतिप्रत्यक्षं सिंहासने ऽहं निवेशितः । सर्वे ऽपि पल्लीपतयो भणिताः । यद्भवतामयमेव नरेश्वरः । अहं पुनर्यन्मनो ऽभिमतं तत्करिष्यामि' इति भणित्वा पल्लीपतिर्नि15 र्गतः । तस्यानुगमनं विधाय सेवकाः पल्लीपतयो निवर्तिताः । अहं पुनः स्तोकमपि भूमिभागमग्रतो 15 ऽगमम् । व्याघुटमानस्य मे तेन शिक्षा प्रदत्ता । 'यद् वत्स, जीववधो न विधेयः । भव्यरीत्या प्रजाः पालनीयाः । प्राणान्ते ऽव्यकृत्यं नाचरणीयम् । श्रीजिनधर्मे कदाचन न प्रमादः कार्यः' इत्युदित्वा पल्ली18 पतिः कुत्रापि गत इति न ज्ञायते । अहमिति मन्ये कस्यचिहरोरन्तिके प्रव्रज्यामभ्युपपन्नः । तहिनादार- 18 याच कुमार, न को ऽप्यस्मद्राज्ये ऽनीतिविधाता ।
५४) अहमपि पुनः कियता कालेन कर्मवशतो महामोहग्रस्त चित्तो विस्मृततत्सर्वशिक्षः सर्षा21 न्यायपरः समभवमिति जर्जरितकलशप्रक्षिप्तपयोवजिनवचनरहस्यं सर्वमपि मम गलितम् । शिक्षा - 21 शेषापि दुर्जनप्रीतिरिव विलयं गता । अतो मयैष पुरुषो निदेशितः, यल्लोभेनाहमीदृशीमवस्थामानीतस्तस्वया लोहदण्डेनाहं स्मरणार्थ ताडनीयः । ततो ऽयमपि प्रतिदिनं मां लोहदण्डेन ताडयति ।' ततः 24 कुमारेणोक्तम् । 'अमुं वृत्तान्तमाकर्ण्य कस्य चेतो न चित्रीयते । महासत्त्वो रत्नमुकुटः प्रत्येकबुद्धो 24 ऽजनि । दुर्लभो जिनप्रणीतः पन्थाः । दुर्जयो लोभपिशाचः । तद् भो महाशय, किं खेदमुद्रहसि यन्मया तच्छिक्षा विस्मृता [इति] अनुशयवतस्तव साद्यापि तथैवास्ते, तस्मात्त्यजावद्यं किं तेन ।' एवं कुमारेणोक्ते 27 तेन जगदे | 'एवमेतन्न संदेहः, परं भवान् विज्ञानरूपकलाकलापविनय दाक्ष्यदाक्षिण्य मुख्यैर्गुणैर्ज्ञायते 27 यथा महाकुलप्रसूतो महासाहसिकः । पुनरिदं न जाने यत्कुमारस्य कीदृक्कुलम्, किमभिधानं, तन्निवेदय ।' कुमारेणोक्तम् । 'अयोध्यानायकस्य दृढवर्मणस्तव पितृव्यस्य पुत्रः को ऽप्यस्ति किं वा न । तेन दीर्घ 80 निःश्वस्योक्तम् । 'कदाचिन्मया पथिकस्यैकस्य पार्श्वे श्रुतं यथा दृढवर्मणो महीपतेर्लक्ष्मीप्रसादतः पुत्र- 30 प्राप्तिरभूत् । पुनर्न जाने पश्चात् किं तत्र वृत्तम् ।' कुमारेण भणितम् । अहं स एव दृढवर्मनरेन्द्रस्य कमलाप्रसादलब्धः कुवलयचन्द्राभिधस्तनूजः ।' एवं निशम्य तेनोक्तम् । अये, मम भ्राता भवान्' इति । 35 ततो गलन्नयनयुगलजलविन्दुर्दर्पफलिकः पप्रच्छ । 'कथय कथं कुमार, एवंविधे तपात्यये जलदजल- 93 धाराभिपूरितधरातले सर्वजनाल्हाद विधायिनि राजहंसप्रवास दायिनि वियुक्तयौवनमनोवनावनीवन वही सकल कमलवन शमनशमने मुदितमत्तमयूरसमुच्चरितकेकारवे कलिकाल इव संचरद्विरसनमण्डले कुभू36 पताविव प्रन सन्मार्गे जंबालजालजटिलमार्गल कण्टक कोटिदुःसंच रे पयःपूरवाहेण पतितगर्ताशतसंकुले 36 प्रचण्डपवनोच्छालिताभ्रंलिहलहरिदुरुत्तरगिरिसरिन्निकरे स्वं स्थानं विमुच्य क्व चलितो ऽसि ।' कुमा रेण सर्वमपि निवेदितम् । 'यत्पुनः संप्रति मया विजयापुर्यां कुवलयमाला प्रबोध्या' इति ।
39
५५) एवं दिनत्रयं तत्र प्रीत्या स्थित्वा कुमारेणोक्तम् । 'यदि तवादेशो भवति तदाहं व्रजामि' 39 इति । नृपेण भणितम् । 'त्वयावश्यमेव गन्तव्यं यद्येवं ततो ऽहं स्वत्कायकौशलहेतवे विजयापुरीं यावरस्वसैन्यकलितः समायामि, यतो भवानेकाकी मार्गपरिज्ञानानिपुणः ।' कुमारेणोक्तम् । 'यतो ऽनुबद्धवैरा 42 भवन्तः, स्तोकं बलम्, अतो भवतामागन्तुं नोचितम्' इत्याकर्ण्य तर्हि 'भवतु भवते स्वस्ति' इत्युदित्वा 42
2 ) [ विमाननां] for विमानं. 5 ) B क्रमेण समभवमति. s adds गम for it on the margin 18 ) B दारभ्य कुमार Pom. क. 38 ) P B बोध्या for प्रबोध्या, Bom इति ( this portion added on the margin ).
Jain Education International
8 ) B यथारुच्या 10 ) Bom इति. 16 ) Pom. मे, 26 ) PH om. [ इति ]. 34 ) 8 राजहंसप्रदायिनि 37 )
For Private & Personal Use Only
www.jainelibrary.org