________________
* 20
रत्नप्रभसूरिविरचिता
[ II. § 21 : Verse 1051 ततो द्वावपि धौतवदनौ कृताहारक्रियौ प्रचलितौ । ततो मार्गभ्रष्टौ दिड्यो हितचित्तौ भयभ्रान्तदृशौ च 1 संसार इव दुस्तरे कान्तारे विविशतुः । ' कुत्रागतौ, कुत्र गमिष्यावः' इति तौ न जानीतः । स्थाणुना भणितम् । 'क्षुधाधिकं मां वाघते तत्त्वं रत्नग्रन्थिं गृहाण, कदाचिन्मम पार्श्वात्पतिष्यतीति समर्पितो ऽनेन 3 रत्नग्रन्थिः ।' चिन्तितं च मायादित्येन । 'अहो, यन्मम कर्तव्यमस्ति तदमुना स्वयमेव कृतम् । ततो मध्याह्ने ललाटं तपतप तीयतृष्णातरलितौ पानीयं सर्वत्र पश्यन्तौ वटपादपाधस्तादवर्ट ददृशतुः । 6 ततश्चिन्तितं तेन दुबुद्धिना 'सांप्रतमस्यैव कृपपाननमेवानपाय उपायः । भणितं मायादित्येन । 'स्थाणो, 6 कूपे कियत्प्रमाणं पयः, विलोक्य कथ्यताम्, यथा तदनुमानेन ढंढां वल्लीतन्तुभिर्दृढां रज्जुं करोमि ।' स तु महानुभावो ऽवहृदयः पयःप्रमाणवीक्षाकृते प्रवृत्तः । ततस्तेन मोहमोहितचेतनेन मायाविनानपेक्ष्य 9 लज्जामवमत्य प्रीतिगनालोच्य दाक्षिण्यमविचार्य परलोकमविचिन्त्य सज्जनमार्ग स्थाणुनीरं निरीक्षमाणः 9 कूपे न्यक्षेपि । स च कूपे दलतृणचयचिते जम्बालान्तः पतितो ऽपि तथाविधां बाधां देहे न सेहे । ततस्तेन विश्वस्तचेतसा चिन्तितम् । 'अहो, पूर्व दारिद्र्यम्, ततः कान्तारान्तः परिभ्रमणम्, तत्रापि 12 प्रिय मित्रवियोगः, एतत्रितयमपि पापिना विधिना विरचितमेव । अहमत्र केन निर्दयहृदयेन क्षिप्तः । 12 अत्र मायादित्य एव समीपवर्ती नान्यः । कथमेतेनास्मि पातितः । अथवा नैतत् संवादि, दुष्टं मया खलु चिन्तितम् ।
15
कदाचिद्वायुना स्वर्णशैलचूलापि कम्पते । उदेत्यंशुः प्रतीच्यां च न मित्रं तनुते त्विदम् ॥ १०५ 15 घिगहो, ममापि हृदयस्यानल्प विकल्पसंकल्पः । ततः केनापि राक्षसेन वा पिशाचेन वा पूर्ववैरिणा क्षिप्तो ऽस्मि ।' स्थाणुरेवं विचिन्त्य स्वस्थ चित्तस्तस्यामप्यवस्थायां तस्थौ । प्रकृतिरेवेदृशी सज्जनानाम् । 18 चिन्तितं मायादित्येन । 'अहो, यत्कर्तव्यं तत्कृतमेव । सांप्रतं दशानां रत्नानां फलं गृह्णामि' इति 18 चिन्तयन् मायादित्यो वनान्तः परिभ्रमन् चौरसेनापतिना वीक्षितो धृतश्च रत्नानि च गृहीतानि ।
$ २२ ) अथ चौरपतिः कथंचिद्भवितव्यतयानन्ययोदन्यया बाधितस्तमेव विशङ्कटावटतटमवाप । 21 समादिष्टं पल्लीस्वामिना 'भो भोः, कूपात्पयः कर्षत' । इत्याकर्ण्य तैः कूपे पयःकर्षणाय वल्लीवरत्रया 21 ग्रावगर्भः पलाशदलपुटकः क्षिप्तः । कूपान्तःस्थेन स्थाणुना तं वीक्ष्य महता शब्देन गदितम् । 'केनापि दैवदुर्योगतः कूपे ऽत्र क्षिप्तः, ततो मामप्युत्तारयत ।' तैः सेनानायकस्य पुरो विज्ञप्तम् । यत्केनाप्यत्र 24 जीर्णकूपे पुमानेकः पातितो ऽस्ति ।' सेनापतिना जगदे ।' 'भो भोः, अलमलं जलाकर्षेण, प्रथमं तमेव 24 वराकं कर्षत ।' ततस्तदा देश वशंवदैस्त्वरितमेव स्थाणुः कूपतः कर्षितः । सेनापतिस्तं बभाषे 'भद्र कुत्रत्यस्त्वं, कुतः समायातः, किमभिधानः, कथं जीर्णावटे निपातितः । भणितं चानेन । 'देव, पूर्वदेशत 27 आवां द्वौ जनौ दक्षिणाशामाश्रित्य कियता कालेन पञ्च रत्नान्युपाये मुदितमानसौ स्वगृहं प्रतिगच्छन्तौ 27 मार्गपरिभ्रष्टौ तृषातरलितचित्तावेतस्यामटव्यां प्रविष्टौ । तत आवाभ्यां तृषातुराभ्यां जीर्णकूपो दृष्टः । अतः परं देव, न किमपि सम्यग् जाने, यदस्मि केनापि पातित इत्यवैमि । परं यद्भवता कृपावता कूपात्संसारा30 दिव गुरुणा प्राणी सद्धर्मवचनोपदेशेनाकर्षितः ।' पतदाकर्ण्य सेनापतिनोक्तम् । 'केवलं तेन दुराचारेण 30 भवानिक्षितः ।' स्थाणुना भणितम् । 'नहि नहि शान्तं पापम् । स कथं मयि जीवितादप्यधिकः प्रियो वयस्यः श्वपच इव दुश्चरितमाचरति ।' सेनापतिना जल्पितं 'स तावत्कुत्रास्ते' । स्थाणुना जगदे 'सांप्रतं 33 नावगच्छामि' । अथ सर्वैरपि परिमोषिभिः परस्परं सहास्यमास्यं निर्माय भणितम् । 'यदयं वराकः 33 सर्वदैवावक्रचित्तः सद्भावः किमपि न जानाति स्वस्य शुद्धचित्ततया ।' ततः पल्लीपतिरुवाच । 'सांप्रतमिदं स एवास्य वयस्यो भविष्यति, यस्यामूर्ध्नि रत्नान्यस्माभिर्गृहीतानि ।' चौरैरुक्तं 'देव, संभाव्यत एतत्' । 36 अथ स पृष्टः 'कथय स कीदृशस्तव वयस्यः' । स्थाणुना भणितम् । 'देव, कृष्णवर्णः पिङ्गललोचनः 36 कृशाङ्गो मम वयस्यः ।' सेनाधिपेनोक्तम् । 'भद्र, त्वया लक्षणसंपूर्णः सुहृलब्धो येन कृपे भवान् पातितः । त्वं प्रत्यभिजानासि स्वानि रत्नानि दृष्टानि ।' तेनोक्तं 'उपलक्षयामि । ततस्तेन तस्य 39 रनानि दर्शितानि । तेन तान्यात्मीयानि परिशाय जल्पितम् । 'कुत्र कदा वा रतानि प्राप्तानि कथं 39 मन्मित्रं व्यापाद्याङ्गीकृतानि ।' तैरुक्तम् । भवन्मित्रं न विनाशितम्, केवलं रत्नानि स्वीकृत्य नियन्त्रय च
1) Pom. च. 5) PB सर्वत्रैव 7 ) PB यधासि तदयमानेन 12 ) एपापिना- 13 ) P अथवा न तमेतदुत्ता संवादि दष्टुं गया, " अथवा नूनमेतदृताऽसंवादि. 16) 0 संकल्पनू. 20) Mo. सट. 29 ) Pom. न, om. कृपावता. 31) प्रिये वयस्ये श्वपच 36 ) Boin. स after कथय 37 P सेनाधिपत्ये नोक्तम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org