________________
-II.54 : Verse 20] कुवलयमालाकथा २
* 11 1 मायासूयाभयोद्वेगविषादाकुलचेतसाम् । त्रिदशत्वे ऽपि सत्त्वानामभिमानभवं सुखम् ॥ १० 1
इत्थं चतुर्गतावत्रासुमता भ्रमता भवे । कर्मनिर्मथनोपायः प्रापि धर्मः कदापि न ॥ ११ 8 कल्पहूँ दुर्लभं प्राप्य प्रार्थयेत्स वराटिकाम् । स्वायत्ते मोक्षसौख्ये ऽपि यो भवेद्विषयी नरः ॥ १२ ॥
संसारमरकान्तारसमुत्तारं यदीहसे । सम्यक्त्वं सलिलं चित्तहतिस्थं तत्सदोह्यताम् ॥ १३ ततः कुमारकुवलयचन्द्र एतस्मिन्नीडशे ऽसारे संसारे क्रोधमानमायालोभमोहमूढमानसैरात्मभिर्यदनु6 भूतं तत्त्वया तुरगापहरणपर्यन्तमेकमनसा कथ्यमानं निशम्यतामिति । तथा हि,
अस्ति समस्तविशङ्कटयज्ञवाटहुताशसमुत्थबहलधुमध्यामलितातुलविपुलनभस्तलः सर्वदेशलक्ष्मीवक्षःस्थलालंकारतारहारो निखिलदेशान्तरसमागच्छदनेकवस्तुसङ्केतभूभाग इव वत्साख्यो विषयः । यत्र कम्पाङ्ककम्पितपुण्ड्रेक्षुपत्रनिचयशब्दवित्रस्तमिव प्रविशति काननभुवं कुरङ्गयूथम् । तदीयपूर्णतरलाक्षिनिरीक्षणेन स्वकीयकान्ताकर्णान्तविश्रान्तलोचनसंस्मृतिपरो लेप्यमय इव दृषनिर्मितस्तम्भ इव निश्चलः पथि पथिकजनश्चिरं तिष्ठति। तत्र प्रोत्तुङ्गशृङ्गसंगतसुरमन्दिरोपशोभमाना गम्भीर12नीरपरिखालंकृतप्राकारा लवणाम्बुधिवज्रवेदिकाकलिता जम्बूद्वीपलक्ष्मीरिव, सुरपुरीव सदृषाश्रया, 12 अलकेव पुण्यजनान्विता, लङ्केच कल्याणमयी, कौशाम्बी नाम नगरी समस्ति।
तस्या एकत्र विलसजगत्रयरमाजुषः। किं ब्रूमो वर्णने यस्या न गीष्पतिरपि क्षमः ॥१४ 16तां प्रियप्रणयिनीमिव भुते पुरन्दरपराक्रमः पुरन्दरदत्ताभिधो वसुधाधीशः। यस्तु प्रालेयाचल इव 15 कीर्तिमन्दाकिन्याः, विश्रामविटपीव गुणशकुनानाम्, कल्पपादप इव यथाचिन्तितदत्तवित्तः।
अत्यवदातेन जिता हंसाः कंसारिमेचका हरयः । सवितुः सिता बभूवुर्यद्यशसा प्रसरता गगने ॥ १५ 18 तत्रैक एव दोषो ऽस्ति समृद्धे ऽपि गुणश्रिया। यजैनवचने सौख्यवृक्षमूले न वासना ॥ १६ 18
६३) तस्य भूवासवस्य वासवस्येव सुरगुरुश्चतुर्विधवुद्धिनिधानं वासवाभिधः सचिवेश्वरः । स नृपतिः सहोदरमिव सहचरमिव पितरमिव देवतामिव तं मन्त्रिणं मनुते । स मन्त्री कौस्तुभमणिमिव पुरुषोत्तमो दुर्वारवैरिवारणनिवारणवारणारितुल्यं श्रीजिनेश्वरप्रणीतं सम्यक्त्वं हृदि धारयति । तस्य । मन्त्रिणो वासवस्यान्यदा कृतप्राभातिकावश्यकस्य भगवतामहतां महार्हाणामहणानिमित्तं जिनायतनं प्रवि
शतो द्वारदेशे ऽनेकविधप्रभूतपरिमलपरिमिलितमधुकरनिनादमनोहरेण पुष्पकरण्डकेन समं बाह्योद्यान24पालका स्थावराख्यः समाययौ। तेन तञ्चरणयुगं प्रणम्य 'देव, वय॑से । सकलकामिजनलोचनप्रमोदप्रदः24 प्राप्तस्तावद्वसन्तावतारः' इति जल्पता पुष्पाण्युपदीकृत्य महामन्त्रिणःकरतले सहकारमारी ततः समार्पता। अन्यच्च 'तत्रोद्याने चन्द्र इव तारकानिकरेण शिष्यगणेन परिवृतः क्षमारामाललामश्चारित्ररत्नरत्नाकरः सर्वमुनिशिरोरत्नं निहतदुर्जेयकषायसंचयः सद्धर्मनन्दनः श्रीधर्मनन्दनो नाम यतीश्वरः समवातरत्' 124
६४) तदाकर्ण्य मन्त्रिणा भृकुटीभङ्गभीमाननेन 'हा अनार्य' इति वदता सहकारमञ्जरी निजसहचरहस्ते समर्प्य साक्षेपमिति जल्पितम् । रे रे दुराचार विवेकविकल स्थावरक, प्रथम प्रधानं सादरं 30 वसन्तं कथयसि पश्चाद् धर्मनन्दनाचार्यम् ।
30 क वल्मीकः क वा मेरुः क्वालसः क च नागराट् । क वसन्तः क भगवान् सूरिः श्रीधर्मनन्दनः ॥ १७
ऋतुराट्र तनुते चित्तं कामार्ते स च साधुराट् । तदेव विपरीतं तु वीक्ष्यतामन्तरं द्वयोः ॥ १८ 33 तद्वच्छतस्यात्मनो दुर्बुद्धिविलसितस्य फलं भुव' इति । 'रे प्रतीहार,' अमुष्य वनरक्षकस्य केदाराण33 लक्षार्धं त्वरितं दापय, येन तत्कर्षणायासविवशः पुनरपीदृशं निर्विवेकं न वदति' इत्युक्त्वा मन्त्री विहितदेवतार्चनः प्राप्य राजसौध तामेव मञ्जरी नृपतिकरतलसंगिनी चके । राज्ञा भणितम् । 'किं 36 बहिरुद्याने पुष्पकालो ऽवततार। ततो मन्त्रिणा जल्पितम् । 'वसन्तलक्ष्मीवीक्षायै देवपादमवधार-36 यस्वेति।' इति श्रुत्वा सुरेश्वर इव चतुर्दन्तं नृपतिरुत्तुङ्ग मतङ्गजमारुह्य चतुरङ्गवलेन वनावनीमीयिवान् ।
मन्त्री नृपं प्रोवाच । 'देव, अवधार्यताम् ।। 39 अमन्दानन्दसंदोहस्फुरन्मधुकरस्वरैः । स्थलाम्भोजानि ते सौवागतिकत्वं वदन्ति हि ॥ १९9
अमी वृक्षा निरीक्ष्यन्ते नम्राः फलकदम्बकैः । त्वय्यागच्छति भूनाथे कः कुर्यान नर्ति क्षिती ॥ २०
4) B सम्यक्त्वसलिलं. 7) B विसंकट. 17) Pहारयः for हरयः- 22) Pमहार्हाणानिमित्तं. 23) परिमलित B मिलित for परिमिलित. 25) P adds हार and B adds हारि (but later soored) before मजरी- 29) PB 'मञ्जरी for 'मजरी. 33) B दुर्बुद्धे बुद्धिविलसितस्य. 35) Pराज्ञसौध. 37) रत्तंगं मतम. 39) P अमंदामंदसंदोह B अमंदामोदसंदोह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org