________________
18
-I. $ 18 : Verse 60]
कुवलयमालाकथा १ 1सकलाभिः कलाभिश्चिरादुत्कण्ठितचेतोभिर्वधूभिरिव वल्लभः प्रावृषि नदीभिरिवादीनाभिनंदीनः स्वयं 1
स्वीकृतः।' अथ नृपेणोपाध्यायं विधिना संभूष्य प्रोक्तम् । 'वत्स, तवातुच्छदुःसहविरहदहनसमुत्थ3चिन्ताधूमध्यामा यथार्थाभिधाना प्रियङ्गुश्यामा समजनि जननी ते, तत्तां प्रणम ।' एवं समादिष्टः 3 पुत्रः 'देवो यथा समादिशति' इति वदन् भूपतेरुत्संगात्समुत्थाय जननीं तदात्वविलोकनामन्दानन्दबाष्पभरप्लुतलोचनां समीपीभूय सविनयमाननाम । निःशेषमङ्गालोपचारं कृत्वा सुतं शिरसि चुम्बित्वा 6 तेहेन देवगुरूणां सतीनां मातृणां प्रभावेन पितरमनुहरस्व' इति जल्पितवती यावद्देवी तावत्वरित- 6 मागत्य प्रणिपत्य च जनयित्रीं प्रतीहारी प्रोवाच । 'देवि, स्वामी स्वयमद्य वाहकेलिं कर्तेत्यतःप्रेष्यतां कुमारः। ततो मात्रा स विसर्जितः क्षितिपसमीपमुपाजगाम | वसुधाधवेनोक्तम् । 'भो महासाधनिक, गरुडवाहनं तुरङ्गममुपनय महेन्द्रकुमारस्य । तथा यथार्हमुत्तमाँस्तुरगानपरेषां राजपुत्राणां नियोजय । 9 ममापि पवनावर्त तुरङ्गममर्पयेति । अपि च ।
रत्ननिर्मितपर्याणं सौवर्णमुखयन्त्रणम् । अर्पयोदधिकल्लोलं हयं कुवलयेन्दवे ॥' ५३। 12१६) तावदादेशानन्तरं तेन कुवलयचन्द्रस्य पुरतस्तुरङ्गमः समुपस्थापितः । यश्च कीदृशः।12
वायुरिव गमनकदत्तचित्तः, मनोभाव इव क्षणप्राप्तदूरदेशान्तरः, युवतिखभाव इव चपला, विपणिश्रेणिरिव मानयुतः, पण्याङ्गनाप्रेमप्रकर्ष इवानवस्थितचरणचतुष्कः । तं विलोक्य नृपेणोक्तम् । “कुमार, 10 किंचित्तुरङ्गलक्षणविचक्षणोऽप्यसि ।' कुमारेण विज्ञप्तम्। 'गुरुचरणकमलाराधनेन किंचित्परिज्ञातमस्ति। 15
भणितं भूपेन । 'वाजिनां कति जातयः, किं प्रमाणम् , किं लक्षणमपलक्षणं च' इति । कुमारेणाभ्यधायि । 'नाथ, अवधार्यताम् । यदश्वानामष्टादश जातयः, वोल्लाह-सेराह-कियाहादयः । ते वर्णलान्छनविशेषण 18 भण्यन्ते । अश्वस्योत्कृष्टवयसः प्रमाणम् ।
नरामुलानि द्वात्रिंशन्मुखं भालं त्रयोदश । अपाङ्गुलं शिरः कर्णौ षडङ्गुलमितौ मतौ ॥ ५४ चतुर्विंशत्यङ्गुलानि हयस्य हृदयं तथा । अशीतिश्च समुच्छ्राये परिधिस्त्रिगुणो भवेत् ॥ ५५ एतत्प्रमाणसंयुक्ता ये भवन्ति तुरङ्गमाः । राज्यवृद्धिं महीपस्य कुर्वन्त्यन्यस्य वाञ्छितम् ॥ ५६ 21 एकः प्रपाणे भाले च द्वौ द्वौ रन्ध्रापरन्ध्रयोः द्वौ द्वौ वक्षसि शीर्षे च ध्रुवावर्ता हये दश ॥ ५७
अत ऊ गुणैयूंनानन्यूनान् वा हयानिह । दुःखातिदुःखदान् प्रोचुरश्वलक्षणदक्षिणाः॥ ५८ 24यावदेतत् कुमारो निवेदयति तावद्भपेन निगदितम् । 'वत्स, पुनः प्रस्तावान्तरे श्रोप्यामः' इति वदन्ना-24 रूढः क्षमापरिवृढः पवनावर्ते तुरङ्गे, कुमारोऽप्युदधिकल्लोले, महेन्द्रो ऽपि गरुडवाहने, अपरा अपि
राजपुत्रा अपरेपु तुरङ्गेषु। अपि च । 27
गजैस्तुरङ्रुत्तुङ्गैरनेकैः पदिकैस्तथा। विस्तीर्णमपि संकीर्ण राजद्वारं तदाभवत् ॥ ५९ 27 ____६१७) ततो धृतसितातपत्रश्चलञ्चारुचामरयुगलोपवीज्यमानश्चतुरङ्गचमूचक्रपरिवृतः क्षितिपतिः
श्रीपथमवतीर्य च वर्यधैर्यगुणशाली कौतुकायातलोकलोचनप्रमोदमाद्धानः क्षणेन पुरीपरिसरमवाप्य 30सकलमपि बलं दुरतो विधाय वाहकेलिं कर्त प्रवृत्तः। कुमारोऽपि धौरितकादिपश्चगतिक्रमनिरीक्षणाय 30
स्वमश्वं वाहकेलौ मुमोच । यावजयजयारवं जनः करोति तावत्सर्वेषां राजपुत्राणां पश्यतामेव तत्क्षणं बहलतमालदलश्यामलं गगनतलमुदधिकल्लोलः समुत्पपात । ततस्तस्य वाजिनो जवेन दक्षिणां दिशं 33 प्रति धावतो ऽनुधावन्तीव शाखिनः । यदग्रे निकटीभूताः पदार्थास्ते ऽप्यनिकटीभूताः। तत एवं 33 ह्रियमाणेन कुमारेण चिन्तितम् । 'अहो, यदि तावत्तुरगस्ततः कथं नभस्तलमुत्पतितः । अथ यदि देवः
को ऽपि ततः कथं तुरङ्गत्वं न मुञ्चति ।' एवं चिन्तयता कुमारेण परीक्षाकृते यमजिह्वाकरालया क्षुरिकया 36 निर्दयं तार्क्ष्यः कुक्षिप्रदेशे हतः। ततः पतच्छोणितनिवहो वाहः शिथिलसर्वाङ्गसंधिर्मू निमीलिताक्ष:38 क्षितौ पतितमात्रः 'कुमारापहारात पापी' इति भणित्वा तत्कालमेव जीवितव्येन तत्यजे। ततस्तं गतासुं निरीक्ष्य कुमारेण चिन्तितम् । 'अहो, विस्मापनीयमेतत । 39 यद्यश्वस्तत्कथं देवमार्गगामी न चैष चेत् । तुरगस्तदयं किं वा प्रहारेण हतो मृतः॥ ६०39
६१८) अथ तपात्ययसमयसजलजलदगर्जिगम्भीरधीरः कस्यापि शब्दः समभूत् । “भो निर्मलशशिवंशविभूषण कुवलयचन्द्रकुमार, समाकर्णय मम वचनम् । 'गन्तव्यमस्ति तवाद्यापि गव्यूतिमात्र 42 दक्षिणदिग्विभागे, द्रष्टव्यं चादृष्टपूर्वमिव किमपि।" इदं च श्रुत्वा चिन्तितं कुमारेण । 'अहो, कथं
3) PR inter. जननी & समजनि, Pom. ते. 4) B तदास्यविलोक. 6) 0 इति यावदाशीर्वाद दत्ते देवी ताव. 7)0. प्रतिहारी. 13) मनोभव इव. 15) 0g गुरुप्रसादेन किं. 19) Pलाभ for भालं. 23) P दक्षणः, B दक्षणा:- 28) P*पत्रावरच्चार, Bom. चमूचक्र. 30) धारितादि. 35) P inter. न तुरङ्गवं. 36) okh'ताक्षः 'पापी' इति भणन् क्षिती पतितमात्रो मृतः । ततस्तं. 40) ० गम्भीरः कस्यापि. 41) B वंशभूषण, ० गव्यूतमति.
न तुरकर. 366.23) " दक्षणा दिक्षणेदते देवी ताव' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org