________________ 120 STUDIES IN JAIN LITERATURE 14. अन्ये पुनराहुः- मूलतः कर्मैव नास्ति, स्वभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्च इति / --Gunaratna's Commentary to Saddarsanasamuccaya (st.50) 15. हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः / स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ / / पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः / हासं वृद्धि विनाशं च न प्रहृष्ये न च व्यथे / स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः / स्वभावनिरताः सर्वाः परितुष्येन केनचित् / / स्वभावभाविनो भावान् सर्वानेवेह निश्चयात् / बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति / स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः / स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यसि // -Mbh, Santiparvan : 25, 16, 179. 10-11; 222. 27, 35 16. पृथिवी ज्योतिराकाशमापो वायुश्च पञ्चमः / एतद्योनीनि भूतानि तत्र का परिदेवना // केचित्पुरुषकारं तु प्राहुः कर्मसु मानवाः / दैवमित्यपरे विप्रा; स्वभावं भूतचिन्तकाः // विकारानेव यो वेद न वेद प्रकृति पराम् / तस्य स्तम्भो भवेद्वाल्यानास्ति स्तम्भोऽनुपश्यतः || प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे / द्वेष्टारं च न पश्यामि यो मामद्य ममायते // -~-Mbh, Santiparvan : 224. 17; 232. 19; 222. 26, 31 17. Outlines of Indian philosophy, p. 105. 18 .....प्रकृतिस्त्वां नियोक्ष्यति / स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा // कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् / कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः / / प्रकृति यान्ति भूतानि......... ...........स्वभावस्तु प्रवर्तते // -Bhagavadgita XVIII. 59-60; III. 5; III. 33, V. 14 19. तत्कथमेतज्जगद्वैचित्र्यं घटते?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति ?, अत्रोच्यते, स्वभावात्, तथा हि- कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुङ्कमागरुचम्दनादिविलेपनानुभोगमनुभवति धूपाद्यामोदं च, अन्यस्मिस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स तादृग्विधावस्थाविशेष इत्येवं स्वभावाज्जगद्वैचित्र्यं / तथा चोक्तम् - कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता / वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि // -Silanka's Commentary to Sutrakrtanga, folio 21 (a) 20. केचित् स्वभावभावितं जगद् मन्यन्ते स्वभावेनैव सर्व: संपद्यते / - Jnanavimala to Prasnavyakarana 7, fol. 29 (cited by Basham) Jain Education International For Private & Personal Use Only www.jainelibrary.org