________________ SVABHAVAVADA (NATURALISM) : A STUDY 119 ...स्वभावो नाम न कश्चित्पदार्थोऽस्ति यतः प्रजानामुत्पत्तिसङ्गतिः स्यात् तस्माद्यो ब्रूते स्वभाव; कारणमिति तन्मिथ्या / -Mathara-vrtti to SK. 61 7. अपरे स्वभावकारणिकां ब्रुवते / केन शुक्लीकृता हंसा मयूरा केन चित्रिताः / स्वभावेनैवेति ।....कालस्यापि प्रधानमेव कारणम् / स्वभावोऽप्यत्रैव लीनः / तस्मात् कालो न कारणं नापि स्वभाव इति / तस्मात् प्रकृतिरेव कारणं न प्रकृतेः कारणान्तरमस्तीति / -Gaudapadabhasya to Samkhyakarika 61 8. अपरे अन्ये लौकायतिकाः स्वभावं जगतः कारणमाहुः / स्वभावादेव जगद्विचित्रमुत्पद्यते स्वभावतो विलयं याति / तथा च तद्वाक्यम् / कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च / माधुर्यमिक्षोः कटुतां च निम्बे स्वभावतः सर्वमिदं प्रवृत्तम् / --Bhattotpala's Commentary to Brhatsamhita 1.7 9. न कल्प्यौ सुखदुःखाभ्यां धर्माधर्मों परैरिह / स्वभावेन सुखी दुःखी जनोऽन्यन्नैव कारणम् // शिखिनश्चित्रयेत् को वा कोकिलान् कः प्रकूजयेत् / / स्वभावव्यतिरेकेण विद्यते नात्र कारणम् // -~-Sarvasiddhantasangraha II. 4-5 10. सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते / स्वभाववादिभिस्ते हि नाहुः स्वमपि कारणम् / / राजीवकण्टकादीनां वैचित्र्यं कः करोति हि / मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितः // कादाचित्कं यदवास्ति निःशेषं तदहेतुकम् / यथा कण्टकतैक्ष्ण्यादि तथा चैते सुखादयः // -Maladhari Hemacandra's Commentary to Ganadharavada II, v. 1963 Note : The text reads 'मयूरचन्द्रिकादिर्वा विचित्रः'. Shri Malvania renders it as "The plumage of the peacock is variegated and the moonlight is bright white..." (Ganadharavada (p. 45): Gujarat Vidyasabha, Ahmedabad). It appears to me, however, that the text originally must have read 'मयूरचन्द्रकादिर्वा विचित्र:'- *which reading eminently suits the context. 11. नित्यसत्त्वा भवन्त्यन्ये नित्यासत्त्वाश्च केचन / विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः // . अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः / केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः // -Quoted by Shri Malvania in his Introduction to Ganadharavada, p. 114 12. नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेत्- न तद् भद्रम् / स्वभावादेव तदुपपत्तेः / तदुक्तम् अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः / केनेदं चित्रितं तस्मात्स्वभावात्तद्व्यवस्थितिः // --Sarvadarsanasangraha, Carvakadarsanam, p. 13. (BORI, Poona, ed. 1951) 13. को चित्तेइ मऊरं गई च को कुणइ रायहंसाणं / को कुवलयाण गंधं विणयं च कुलप्पसूयाणं // ---Sukhabodha-Laghuvrtti to Uttaradhyayanasutra (Agadadatta, v. 75) Jain Education International For Private & Personal Use Only www.jainelibrary.org