________________ 118 STUDIES IN JAIN LITERATURE यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम् / कादाचित्कतया तद्वदुःखादीनामहेतुता // The refutation of Svabhavika-jagadvada by santaraksita may very briefly be summarised thus : "Thus filaments of the lotus, etc., have the seed, mud and water as the causes. Why then should we search for other causes which are not to be found ? If all things come about by 'svabhava' why should they appear at particular times and particular places only ? It is clear, therefore, that they have particular causes for their origin and development. The Svabhavika-jagadvada: thus stands refuted by pratyaksa-pramana itself." Notes and References : 1. कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या / संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः // स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः / देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् / / -Svetasvatara I. 2, VI.1 2. स्वभावो नाम पदार्थानां प्रतिनियता शक्तिः / अग्नेरौष्ण्यमिव / 3. अग्नेर्यथा ह्यौष्णमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृति वदन्ति // केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च / स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः / / यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव / संयुज्यते यज्जरयातिभिश्च कस्तत्र यत्नो ननु स स्वभावः // अद्भिर्हताश: शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् / भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च गत्वा जगदुद्वहन्ति / यत्पाणिपादोदरपृष्ठमूर्जा निवर्तते गर्भगतस्य भावः / यदात्मनस्तस्य च तेन योग: स्वाभाविकं तत्कथयन्ति तज्ज्ञाः // कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा / स्वभावतः सर्वमिदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः // --Buddhacarita IX. 5 4. Translation by E. H. Johnston, Calcutta, 1936. 5. अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् / अनिमित्ता शरीराद्युत्पत्तिः / कस्मात् / कण्टकतैक्ष्ण्यादिदर्शनात् / यथा कण्टकस्य तैक्ष्ण्यम्, पर्वतधातूनां चित्रता, ग्राव्णां श्लक्ष्णता, निनिमित्तं चोपादानवच्च दृष्टं तथा शरीरादिसर्गोऽपीति / --Nyayasutra-Bhasya IV. 1. 22 6. अपरे स्वभावमाहुः / स्वभावः कारणमिति / तथा हि येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः / मयूराश्चित्रिता येन स नो वृत्तिविधास्यति // Jain Education International For Private & Personal Use Only www.jainelibrary.org