SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना २३ (१) बृहद्वृत्तिः । (२) श्रीजिनप्रभसूरिकृता 'अर्थकल्पलता'नाम्नी वृत्तिः । अस्यां त्रयोविंशतितमश्रीपाश्वनाथं नागपतिधरणेन्द्रं तत्पत्नीपद्मावती शासनरक्षकश्रीपार्श्वयक्षं चाश्रित्य व्याख्या कृता मूरिराजैरिमैः । सप्तस्मरणानीति ग्रन्थे मुद्रापितेयं मदीयसंस्करणादिपूर्विका श्रेष्ठिदेवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्थया । ( ३ ) श्रीजयसागरमुनिरचिता वृत्तिः। (४) श्रीपूर्णचन्द्रमूरिसूत्रिता श्रीचन्द्रसेनक्षमाश्रमणसाक्षिपूर्विका (पृ. ४) टीका । इयं मुद्रापिता भावनगरस्थश्रीशारदाविजयजैनग्रन्थमालायाम् । नानामन्त्राम्नायप्रक्रियापुरस्कृता लघुवृत्तिरियं गुरुमुखज्ञातविद्यावादसाहाय्येन गुम्फिता सूरिवरैरिति ज्ञायते निम्नलिखितपद्यप्रेक्षणेन " उपसर्गहरस्तोत्रं विवृतं सङ्क्षपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्यावादाभिधग्रन्थात् ॥" ( ५ ) द्विजश्रीपार्श्वदेवगणिगुम्फिता विवृतिः । १ विक्रमपञ्चदण्डप्रबन्धस्य प्रणेतारः पूर्णचन्द्राभिधा मुनिवरा एभ्यो भिन्ना न वेति निर्णयन्तु सङ्ख्यावन्त इतिहासज्ञाः।। २ एतनाम निरदेशि श्रीजिनप्रभसूरिभिः श्रीपूर्णचन्द्रसूरिभिश्च निजनिजव्याख्यायाम् । ३ एभिरेव वैक्रमीयाब्दे १२०३तमे वैशाखशुक्लपञ्चम्यां पद्मावत्यष्टकवृत्ति-. हस्तकाण्डश्च निरमायीतीतिहासज्ञा मुनिवराः श्रीकल्याणविजयाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy