________________
२२
प्रस्तावना
एते तु वराहमिहिरस्य समसमयिनः ऐसवीय ( ५०५-५८५ )षष्ठशताब्दीं च समलङ्कृतवन्तः । पारम्पारिके प्रवादे भद्रबाहवोः पृथकत्वं न दृष्टिपथमवतरति । तत्र प्रथमे एव लक्ष्यीकृताः सम्भाव्यन्ते । श्रीजिनतूरैरपि इयमेव प्रणालिका स्वीकृतेति तर्क्यते प्रियङ्करनृपकथाया निम्नलिखिततार्तियीक पद्यगत' ज्ञानादित्य' विशेषणेन
"
“ उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुस्वामिना । ज्ञानादित्येन सङ्घाय शान्तये मङ्गलाय च ।। " किश्व समर्थ्यते चेदं प्रियङ्करकथा ( पृ. ३३ ) गतेन ' श्रीभद्र - बाहुकृतकेवलिना ' इत्युल्लेखेन ।
स्तोत्रमानम् -
उवसर्गहरस्तोत्रं कियद्गाथा प्रमाणकमिति प्रश्नः । इदं पञ्चगाथात्मकमित्यनुमीयते श्रीजिनप्रभीयवृत्तिसमवलोकनेन यतस्तत्र न केवलं पञ्चैव गाथा व्याख्याताः, किन्त्वधिक गाथासद्भावसूचकः प्रघोषः प्रवादोऽपि न दिङ्मात्रेणाप्युल्लिखितः । किन्तु प्रोक्तं श्रीजिनसुरैः प्रियङ्कर नृपकथायां द्वयशीतितमे पृष्ठे 'पड़गाथाश्रमाणकम् ' । अपरञ्च श्रीहर्षकीर्तिमूरिभिः सप्तगाथात्मकं स्तोत्रं समसूचि, परन्तु गाथे अधिके न निवेदिते केनापि कार - न । अधुना एकविंशतिर्गाथा दरीदृश्यन्ते, परन्तु बहुधा तासां प्रक्षेपत्वं स्वीक्रीयते समीक्षकैः ।
उपसर्ग हर स्तोत्रस्य 'वृत्तयः -
१ श्री जिनसूरैः कस्याश्वनैकस्या वृत्तेरुल्लेखः कृतो दूधशीतितमे पृष्ठे, परन्तु केयमिति निश्चयितुं न क्षमोऽहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org