________________
प्रस्तावना
अथवा स्पष्टोल्लेखे सति किमनुमानेन ? । स च वर्वति निम्नलिखिते पद्ये
"विशालराजसूरीश-सुधाभूषणसद्गुरोः । शिष्येण 'जिनसूरेण, सुकृताय कथा कृता ॥२८६॥" इदमेव पद्यं विद्यते श्रीमन्मथनरेन्द्रसूनुरूपसेनचरित्रस्य प्रान्ते । अतो ज्ञायते चरित्रस्यास्य समानकर्तृत्वम् । पण्डितहीरालाल हंसराजेतिनामधेयमहाशयैः १९६८तमे वैक्रमीयाब्दे प्रसिद्धिमानायि चरित्रमिदम् , परन्तु तत्रत्यो जिनसूरिरिति निर्देशः स्खलनात्मकः । अपरञ्च कतिपयानां साक्षिरूपपद्यानामपि साम्यं वर्तते ग्रन्थयुगले । यथाहि
१ सुधाभूषणेति नाम सम्भवति, यतः सरस्वतीस्तोत्रसूत्रधाराः श्रीज्ञानभूषणमुनयः श्राद्धविधिविनिश्चयस्य कर्तारःश्रीहर्षभूषणगणयः; देवपदान्तिकं हरिभूषणेति नाम दिगम्बरसम्प्रदायेऽपि वर्तते । किञ्च प्राकृतगूर्जरभाषानिबद्धं सस्तबकं ७३पत्रात्मकं गौतमकुलकं प्राणायि श्रीसुधाभूषणैरित्यवगम्यते 'लीबडीस्थहस्तलिखित-जैनज्ञानभंडार-सूचीपत्र'स्य द्वितीयपरिशिष्ट( पृ० ४ )प्रेक्षणात् । परन्तु इमे प्रस्तुता न वेति निर्धारणाय तत्प्रतिप्राप्तिरावश्यकी।
२ एवं परिस्थित्यां सत्यां जैनग्रन्थावल्याः २४८तमपृष्ठगतो जिनसूरीत्युल्लेखो भ्रान्तिमूलकः सिद्धयति । किञ्चैभिलिखितैका प्रतिर्बालावबोधसमेतगौतमपृच्छति नाम्नी ३७९/१८७९-८० अङ्करूपा च प्राच्यविद्यासंशोधनमन्दिरेऽस्ति । ३ प्रारम्भिकपद्यमेवम्
" श्रीमन्नं विदुरं शान्तं, लक्ष्मीराज्यजयप्रदम् । वीरं नत्वाऽद्धतां पुण्य--कथां काञ्चिल्लिखाम्यहम् ॥ १॥"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org