________________
उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् दलेषु ह्रीं ब्लू ही ४ देवदत्तं ४ दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनादिसुगन्धद्रव्यैर्भूर्यपत्रे संलिख्य नारीबाहौधारणीयम् । वन्ध्या गुर्विणी भवति, मृतवत्सा गर्भ धारयति, काकवन्ध्या प्रसवति, सर्वभूतपिशाचरक्षा (च) भवति । वंकारनामगर्मितस्य बाह्ये षोडश स्वरान् वेष्टयेत् । ॐ हां हीं चामुण्डे ! स्वाहा। आवेष्टय बाह्य बलं २ पूरयेत् । एतद् यन्त्रं तु कुङ्कुमादिसुगन्धद्रव्यैः भूर्जपत्रे संलिख्य बाहौ धारणीयम्। बालग्रहरक्षा भवति । मायाबीजत्रिगुणं नामगर्भितस्य बहिरष्टदलेषु ही देइ दातव्यम् । एतद् यन्त्रं भूर्जे कुङ्कुमगोरोचनया आलिख्य स्त्रीपुरुषबाहौधारणीयम् । सौभाग्यं भवति । वांकारं नामगर्भितस्य बहिश्चतुर्दलेषु वंकारं दातव्यम् । बहिरष्टपत्रेषु रकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य(ते) क्षुद्रोपद्रवोपसर्गदोषा उपशाम्यन्ति । आ(वै?)रोव्यानामविद्यां ह्रींनामगर्भितस्य बहिरष्टपत्रेषु देयं हमयूं ही दातव्यम् । एतद् यन्त्रं गोरोचनया० भूर्जपत्रे संलिख्य कण्ठे हस्ते वा बद्ध्वा चौरभयं न भवति । अघोरा नाम विद्या । ह्रींकारनामगर्भितस्य बहिरष्टदलेषु मायाबीजं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सौभाग्यं भवति । मायागर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम्। एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सर्वजनप्रियो भवति। मायानामगर्भितस्य बहिरष्टपत्रेषु रकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य (ते) बालानां शान्तिपुष्टिकरी रक्षा भवति । मायावी नामगर्भितत्रिगुणं (सं)वेष्ट्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे आलिख्य कण्ठबाहुभ्यां धारयेत् । आयुषः अपश्रितज्वरभूतपिशाच१ 'उपशमयन्ति' इति ख-पाठः । २ 'विदर्भितस्य' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org