________________
काव्यमाला । ___ दुर्विज्ञेयमसतीचरित्रमित्यात्मनो लोकरहस्यवेदित्वमभिव्यञ्जयनागरिकः सहचरमाह
खाणेण अ पाणेण अ तह गहिओ मण्डलो अडअणाए । जह जारं अहिणन्दई भुकइ घरसामिए एन्ते ॥ ६२॥ [खादनेन च पानेन च तथा गृहीतो मण्डलोऽसत्या।
यथा जारमभिनन्दति भुक्कति गृहस्वामिन्येति ॥] पानेन भोजनेन च तथा गृहीतो हि मण्डलोऽसत्या।
जारं यथाभिनन्दति बुकति गृहभरि त्वयति ॥६२॥ मण्डलः कुक्कुरस्तथा गृहीतो वशीकृतः । गृहीत इति पदेन हस्तगततासूचनादेकान्तवशीकृततया अन्याननुकूलताभावो ध्वन्यते । अमिनन्दति सपुच्छधूननं पदलोठनादिना तूष्णीं तत्स्वागतं करोतीत्यर्थः । अनेन-निभृतं जारस्य गृहान्तः प्रवेशो ध्वन्यते । गृहखामिनि गृहमागच्छति सति बुक्कति शब्दं करोति । तथा च तच्छब्दसूचनया रममाणस्य जारस्य निह्नवे सौकर्य सूच्यते । खामिपदपरिवर्ते गृहस्वामिपदप्रयोगेण 'यस्मिन् गृहे भोजन-संवेशनादिकं लभते तस्याधिकारिणं जाननपि बुक्कतीति विशेषशिक्षितत्वं द्योत्यते । 'मण्डलं परिधौ कुष्ठे देशे द्वादशराजसु । क्लीबेथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे ॥' इति मेदिनी । 'असतीरक्षणस्य दुःशकतामसतीपतिं श्रावयन्ती काचिदाह' इति गङ्गाधरावतरणम् । तट्टीकायां 'भुकते' । “एति' [ आगच्छति सति] इति तु व्याकरणविरुद्धमेव ।
सततसुरतासक्तानां दुर्निवारा दौर्बल्यदशेति दयिताय दर्शयन्ती दूरदर्शिनी काचिव्याधवृत्तान्तं निदर्शयति
कण्डन्तेण अकण्डं पल्लीमज्झम्मि विअडकोअण्डम् । पइमरणाहिँ वि अहिअं वाहेण रुआविआ अत्ता ॥ ६३ ॥ [कण्डूयता अकाण्डे पल्लीमध्ये विकटकोदण्डम् ।
पतिमरणादप्यधिकं व्याधेन रोदिता श्वश्रूः ॥] कण्डूयता ह्यकाण्डे पल्लीमध्ये स्वविकटकोदण्डम् ।
पतिमरणादप्यधिकं व्याधेन हि रोदिता माता ॥ ६३ ॥ खस्य विकटं स्थूलदृढत्वाद्दुराकर्षम् । कण्डूयता किञ्चित्तक्षणेन तनूकुर्वता। पतिमरणस्य शोकवेदनायां यावदरोदत्ततोप्यधिकं रोदितेत्यर्थः । पत्युः शौर्ययशःप्रख्यापनायामयं पुत्र एवावलम्बनमासीत् । अद्य पारम्परिक धनुस्तक्षता तेन पत्युर्यशःशरीरमपि समापितमिति पत्युरपेक्षयापि तत्कीर्तेाधकुटुम्बिनीषु स्वस्य समधिकगौरवावहत्वान्मरणतोऽप्यधिक दुःखमित्याशयः। अकाण्डे तक्षणस्याऽनवसरे। ततश्च अशकत्वादेवानेन धनुः सूक्ष्मीकृतमिति द्योत्यते । कण्डूयनेन नखादिद्वारा त्वक्तक्षणं लक्ष्यते । तथाच-त्वक्तक्षणेनापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org