________________
७ शतकम् ] संस्कृतगाथासप्तशती।
३३५ सायंसमयसंनिधानेन प्रियाभिसरणसामीप्यं सूचयन्ती सखी संमुखमवस्थितां नायिका सवैदग्ध्यमाह
भरणमिअणीलसाहग्गखलिअचलणद्धविहुअवक्खउडा। तरुसिहरेसु विहंगा कह कह वि लहन्ति संठाणम् ॥६०॥ [भरनमितनीलशाखाग्रस्खलितचरणार्धविधुतपक्षपुटाः ।
तरुशिखरेषु विहंगाः कथं कथमपि लभन्ते संस्थानम् ॥] भरनमितनीलशाखाप्रचलितचरणार्द्ध विधुतपक्षपुटाः।
तरुशिखरेषु विहङ्गाः संस्थानं हन्त कथमपि लभन्ते ॥ ६० ॥ स्वशरीरभरेण नमितात् नीलशाखाग्रभागात् चलितं स्खलितं चरणार्द्ध येषाम् , अत एव विधुतौ पक्षपुटौ यैस्ते इति बहुव्रीयुत्तरं कर्मधारयः। नीलेत्यनेन-शाखानामाईतया स्निग्धत्वं सूच्यते, अत एव पक्षिणां पदस्खलनमिति भावः । सायंसमये तरुषु रात्रिसंस्थानं लिप्सन्तो ( दूरत उड्डीयागताः) विहगाः संमुखमुपलब्धेषु लघुशाखाग्रेषु पूर्व स्थातुमिच्छन्ति, तानि च तेषां भरतोऽवनमन्ति । अत एव ईषदवस्थापितं तेषामग्रतनं चरणार्द्ध स्निग्धेभ्यः शाखाग्रेभ्यो विस्खलति । ततश्च पतन्तस्ते पक्षपुटं विधुवन्तः पुनस्तत्र तिष्ठन्ति, इति रात्रिनिवासं चिकीर्षतां पक्षिणां स्वभावः । अनया च स्वभावोक्त्यासंध्यासमयः संजातस्तदिह सज्जय तेमिसरणसमालम्भनानीति नायिका प्रति सख्या सत्वरसंनाहः संसूच्यते । 'दूती अभिसारिकां त्वरयितुमाह' इति गङ्गाधरः।
सुरतरसमत्ततया निर्विशङ्कसंकोचं रमितवती काचिन्नायकमनसि भावि भावान्तर निवारयितुं रतावसाने समभिधत्ते
अहरमहुपाणधारिल्लिआइ जं च रमिओ सि सविसेसम् । असइ अलजिरि बहुसिक्खिरि त्ति मा णाह मण्णुहिसि ॥६॥
[अधरमधुपानलालसया यच्च रमितोऽसि सविशेषम् । ___ असती अलज्जाशीला बहुशिक्षितेति मा नाथ मंस्थाः ॥] सविशेषं रमितोसि हि यदधरमधुपानलालसया।
बहुशिक्षिता विलजा ह्यसतीति तु नाथ मा मंस्थाः॥१॥ सुरतकर्मणि बहुशिक्षिता, अलज्जाशीला विगतलज्जा, अत एवेयमसती इति मयि मा विचारं स्थापयेरित्यर्थः । शिक्षा ह्यपरतो लभ्यते । ततश्च बहुभिर्बहु शिक्षितेयम् , अथवा अस्या बही शिक्षा संजातेत्युभयथाप्यर्थे, सुरते सविशेषप्रवृत्त्या असतीत्वभ्रमो भवति । अत एव नेदं मन्तव्यमिति स भ्रमो निवार्यते । नाथेति संबोधनेन-संप्रति त्वमेव मेवलम्बन मिति त्वत्सनाथायां निष्कपटसमर्पितहृदयायां मयि तवाप्यकीर्तिकरो नायं भ्रमः समुचित इति प्रणयनिवेदनममिव्यज्यते । 'असती प्रशंसता केनापि संगता काचिदसती तमाह' इति गङ्गाधरः । असती (अन्यगामिनी), निर्लज्जा बहुशिक्षिता भवतीति हृदि मा स्थिरीकुर्याः' इति च तट्टीकातात्पर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org