________________
जघन्यस्थितिबन्धस्वामिनः ] द्वितीयाधिकारे स्वामित्वद्वारम्
[१२७ तदेवमुक्ता ओघतो जघन्यस्थितिबन्धस्वामिनः । अथादेशतो मार्गणास्थानेषु प्रतिपिपादयिपुरादौ यासु मार्गणासु सप्तमूलप्रकृतीनां जघन्यस्थितिबन्धस्वामिन ओघवत्तास्वतिदिशति
अाउगवज्जाण भवे ओघव मणुसतिगे पणिदिदुगे। तसदुग-पंचमणवयण-कायोराल-गयवेएसु॥११७॥ लोहे चउणाणेसु संयम-सुहमेसु दंसणतिगे य ।
सुइल-भविय-सम्मेसु खइए सरिणम्मि आहारे ॥११८॥ (प्रे०) 'आउगवज्जाण भवे" इत्यादि, आयुष्कवर्जानां सप्तानां मूलप्रकृतीनामोघवद्भवेत् , जघन्यस्थितिबन्धस्वामीति गम्यते । केषु मार्गणाभेदेष्वित्याह - "मणुसतिगे' इत्यादि, अत्र "व्याख्यानतो विशेषप्रतिपत्ति"रिति न्यायात् मनुष्यत्रिकेनाऽपर्याप्तभेदवर्जाः शेपा मनुष्योधपर्याप्तमनुष्य-मानुषीलक्षणास्त्रयो भेदा ग्राह्याः, इत्थमेव पञ्चेन्द्रियधिकेन त्रसद्विकेनाऽप्यपर्याप्तभेदवों द्वौ द्वौ भेदौ ग्राह्यौ । शेषं तु सुगमम् । भावना तु प्रत्येकमोघवत्कर्तव्येति ॥११७११८॥
तदेवं मनुष्यगत्यादिपट्त्रिंशन्मार्गणासु सप्तानां जघन्यस्थितिवन्धस्वामिनोऽतिदिश्य शेषमार्गणाविषयकसमानवक्तव्यतामादावभिदधाति
सेसासु मग्गणासु सत्तण्हं बंधगो लहुठिईए। सागाराइविसिट्ठो विणणेयो तदरिहविसद्धो ॥११॥ पज्जत्ता-ऽपज्जत्ता दुहावि जीवाऽथि जत्थ तत्थ भवे ।
पज्जत्तो सव्वाहिं पज्जत्तीहिं ति वत्तव्वं ॥१२०॥ (प्रे०) “सेसासु" इत्यादिगाथाद्वयी गतार्था, केवलं यथाऽऽयुस्त्रिकवर्जानां सर्वोत्तरप्रकृतीनामुत्कृष्टा स्थितिः संक्लेशाधिक्ये सति निर्वत्यते, तथा तासां जघन्या स्थितिर्विशुद्धयाधिक्ये सति निर्वयते । उक्तं च पञ्चसंग्रहे“सव्याण ठिई असुभा, उक्कोमुक्कोससंकिलेसेणं । इयरा उ विसोहीए सुरनरतिरिग्राउए मोत्तं" ॥ इति ॥
तत्रापि यासु मार्गणास्वोषिकजघन्यस्थितिर्न बध्यते, तासु सा न सर्वविशुद्धिप्रत्यया, किन्तु तत्प्रायोग्योत्कृष्टविशुद्धिहेतुका । यासु मार्गणासु सर्वविशुद्धिप्रत्यया जघन्या स्थितिबंध्यते, तास्वनन्तरमेव तत्स्वामिन अोषवत्सर्वविशुद्धा अतिदेशेनाभिहिताः, शेषमार्गणासु बोधवज्जघन्यस्थितिबन्धाभावात्तद्वन्धका न सर्वविशुद्धाः, किन्तु तत्प्रायोग्यविशुद्धा इत्येतदर्शनार्थं शेषमार्गणासु सप्तकर्मणां जघन्यस्थितिवन्धस्वामिविशेषणतया 'तदरिहविसुद्धो” इत्यभिहितम् । वस्तुतस्तु सप्तानां सर्वजघन्यस्थितेरप्यसंख्येपैरध्यवसायबध्यमानत्वात् तेषां चाध्यवसायानां विशुद्धेः परस्परं तारतम्येन वर्तनात सर्वविशद्धा इव तत्प्रायोग्यविशुद्धा अप्यौधिकजघन्यस्थितेर्बन्धका भवन्ति, तथाऽपि सर्वजघन्यस्थितिबन्धप्रायोग्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org