________________
३० ] बंधविहाणे मूलपयडिठिइबंधो .
[निषेकप्ररूपणम् पढमसमए पदेसग्गं णिसित्तं तं बहुगं, बितियसमये विसेसहीणं, ततीयसमये विसेसहीणं एवं विसेसहीणं विसेसहीणं जाप उक्कोसेण सत्तरिसागरोवमकोडाकोडीउत्ति । पंचिंदियाणं सरणीणं मिच्छदिट्टिणं पजत्तगाणं
आउगस्स पूचकोडितिभागं अबाहं मोत्तण जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, वितिए विसेसहीणं, ततिए बिसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेणं तेत्तीससागरोवमाणीत्ति । पंचिंदियाणं सरणीणं भिच्छादिट्टिणं पज्जत्तगाणं णामगोयाणं वे वाससहस्साणि अबाहं मोत्तूणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, वितियसमए विसेसहीणं, ततिए विसेसहीणं, एवं जाव उक्कोसेणं वीससागरोवमकोडाकोडीउत्ति ।"
__इत्थमेव शेषत्रयोदशजीवस्थानेष्वपि वक्तव्यम् , नवरं तत्तज्जीवस्थानेषु ज्ञानावरणादीनां या उत्कृष्टाबाधा भवेत् , तां मुक्त्वा प्रथमसमयाद्यथोत्तरं विशेषहीनं विशेषहीनं कर्मदलं यावत्तेषां ज्ञानावरणादीनामुत्कृष्टः स्थितिबन्धः । तथाहि-संज्ञिपञ्चेन्द्रियापर्याप्तस्यायुर्वर्जसप्तकर्मणामुत्कृष्टस्थितिबन्धोऽन्तःकोटीकोटीसागरोपमाणि, तेषां सप्तानामप्यन्तर्मुहूर्तमबाधा । असंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकर्मणामुत्कृष्टस्थितिबन्धः सागरोपमसहस्रस्य त्रयः सप्तभागाः प्रतिपूर्णाः, मोहनीयकर्मण उत्कृष्टस्थितिबन्धः सागरोपमसहस्रस्य सप्त सप्तभागाः प्रतिपूर्णाः, नामगोत्रकर्मणोरुत्कृष्टस्थितिबन्धः सागरोपमसहस्रस्य द्वौ सप्तभागौ प्रतिपूर्णी, एतेषां सप्तानामप्यन्तर्मुहूर्तमबाधा । असंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्यापि सप्तकर्मणामित्थमेव, नवरं ज्ञानावरणादेरुस्कृष्टस्थितिबन्धो यः सागरोपमसहस्रस्य त्रिसप्तभागादयः प्रतिपूर्णा इत्युक्तः सोऽत्र पल्योपमस्य संख्येयभागेनोनोऽवगन्तव्यः । चतुरिन्द्रियस्य पर्याप्तस्य ज्ञानावरण-दर्शनावरणवेदनीया-ऽन्तरायकर्मणामुत्कृष्टस्थितिबन्धः सागरोपमशतस्य त्रयः सप्तभागाः प्रतिपूर्णाः, मोहनीयकर्मण उत्कृष्टस्थितिबन्धः सागरोपमशतस्य सप्त सप्तभागाः प्रतिपूर्णाः, नामगोत्रकर्मणोरुत्कृष्टस्थितिबन्धः सागरोपशतस्य द्वौ सप्तभागी प्रतिपूर्णी, अबाधा तु सप्तानामप्यन्तमुहूर्तम् । इत्थमेव चतुरिन्द्रियस्याऽपर्याप्तस्य, नवरं ज्ञानावरणादेरुत्कृष्टस्थितिबन्धो यः सागरोपमशतस्य त्रिसप्तभागादयः प्रतिपूर्णा इत्युक्तः, सोऽत्र पल्योपमसंख्येयभागेन न्यूनो वक्तव्यः । चतुरिन्द्रियपर्याप्तस्येव त्रीन्द्रियपर्याप्तस्यापि, नवरं व्यादिसप्तभागाः पंचाशत्सागरोपमसत्का वक्तव्याः । त्रीन्द्रियपर्याप्तवत् त्रीन्द्रियस्याऽपर्याप्तस्यापि, नवरं ते पञ्चाशत्सागरोपमसत्कास्त्र्यादिसप्तभागा अत्र पल्योपमसंख्येयभागेनोना ज्ञानावरणादिसप्तानामुत्कृष्टस्थितिवन्ध इति विशेषः । द्वीन्द्रियपर्याप्तापर्याप्तजीवस्थानयोरपि चतुरिन्द्रियादिवत् ज्ञानावरणीयादिसप्तकर्मणामुत्कृष्टस्थितिबन्धाऽबाधे, नवरं ज्ञानावरणीयादीनामुत्कृष्टस्थितिबन्धप्रमाणे ये व्यादिसप्तभागास्तथा पल्योषमसंख्येयभागेनोनास्यादिसप्तभागा उक्तास्तेऽत्र पञ्चविंशतिसागरोपमसत्का अभिधातव्याः । बादरैकेन्द्रियपर्याप्तस्य ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायकमणामुत्कृष्टस्थितिबन्धः सागरोपमस्य त्रयः सप्तभागाः प्रतिपूर्णाः, मोहनीयस्य कर्मण उत्कृष्टस्थितिबन्धः सागरोपमस्य सप्त सप्तभागाः प्रतिपूर्णाः, सम्पूर्णमेकं सागरोपममिति भावः । नामगोत्रकर्मणोरुत्कृष्टस्थितिबन्धः सागरोपमस्य द्वौ सप्तभागी
HHATAH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org