SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २८ ] बंधविहाणे मूलपयडिटिइबंधो [ निषेकप्ररूपणम् परस्परं त्वमीषामसौ तुल्य एव । यतोऽमिभिः प्रत्येकमायुष उत्कृष्टा स्थितिः पूर्वकोटीप्रमाणा निर्वर्त्यते, सा च षट्पञ्चाशदभ्यधिकद्विशतावलिकाप्रमाणक्षुल्लकभत्रापेक्षया संख्येयगुणा भवति । ततः पुनरसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्योत्कृष्ट स्थितिबन्धोऽसंख्येयगुणः, पल्योपमासंख्येयभागप्रमाणत्वात्तस्य । ततोऽपि संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्योत्कुष्टोऽसंख्येयगुणः, त्रयस्त्रिंशत्सागरोपमप्रमाणत्वादिति ||७|८| | १०|११|| तदेवमभिहितं जीवभेदेषु मूलप्रकृतिसत्कजघन्योत्कृष्ट स्थितिबन्धात्पबहुत्वमपि इत्थं च गतं " ठिठाणाणि" इत्यनेनोद्दिष्टं प्रथमं द्वारम् । अथ क्रमप्राप्ते द्वितीयद्वारे निषेकस्य प्ररूपणा कर्तव्या, तत्र निषेकपदार्थस्तु कर्मदलरचना - विशेष इति प्रागभिहितम्, तस्य च प्ररूपणाऽनन्तरोपनिधा - परम्परोपनिधाभेदेन द्विधा क्रियते, तत्रादावनन्तरोपनिधयाऽऽह— चउदसविहजीवेसु अट्ठह भवे दलं सगमवाहं । मोत्तूण पढमसमये बहुं कमित्तो विसेसूणं ॥ १२ ॥ (प्रे०) "चउदसविहजीवेसु" मित्यादि, चतुर्दशविधेषु जीवेषु - जीवस्थानेषु ज्ञानावरणीयादीनामष्टानां मूलकर्मणां प्रत्येकं स्वकामबाधां मुक्त्वा प्रथमसमये यद्दलं - कर्म प्रदेशानं तद् बहु भवेत्, इतो द्वितीयादिसमयेषु क्रमाद्विशेषोनं, दलं भवेदिति पूर्वतो योज्यमिति संक्षेपः । विस्तरतस्तु - सूक्ष्मैकेन्द्रियबादरै केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रिया इत्येते सप्ताऽपि प्रत्येकं पर्याप्ताऽपर्याप्तभेदाद्विधेति कृत्वा चतुर्दशजीवस्थानानि, उक्तं च "एगिंदियसुहुभियरा, सन्नियरपिंदिया य सवितिचउ । अपजत्ता पिज्जत्ता, कमेण चउदस जियारा ॥ १ ॥ इति ॥ एतेषु प्रत्येकं ज्ञानावरणीयादेर्घन्धप्रायोग्यामुत्कृष्टां स्थितिमपेच्य याऽऽबाधा दलिकनिषेकायोग्यकालरूपा प्राप्यते तां मुक्त्वा प्रथमसमये बाधाकालानन्तरवर्तिसमये यद्दलिकं निषिध्यते तद् द्वितीयादिसमयेषु प्रत्येकं निषिव्यमानद लिकापेक्षयाऽधिकं भवति इतः प्रथमसमयादूर्ध्वं द्वितीयादिसमयेषु प्रत्येकं यथोत्तरं विशेषहीनं विशेषहीनं दलिकं भवति, प्रथमसमयापेक्षया द्वितीयसमये विशेषहीनम् द्वितीयसमयापेक्षया तु तृतीयसमये विशेषहीनम्, ततोऽपि चतुर्थसमये विशेषहीनं दलिकम् एवं यथोत्तरसमयेषु वाच्यमिति । उक्तं च श्रीमन्मलयगिरिपूज्यैः कर्मप्रकृतिटीकायाम्"तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं द्रव्यं कर्मदलिकं निषिञ्चति । एत्तो विसेसहीणं" ति- इतः प्रथमस्थितेरू द्वितीयादिषु समयसमय प्रमाणासु विशेषहीनं विशेषहीनं कर्मदलं निषिञ्चति । तथाहि - प्रथमस्थितेः सकाशात् द्वितीयस्थितौ विशेषहीनम्, ततोऽपि तृतीयस्थितौ विशेषहीनं ततोऽपि चतुर्थस्थितौ विशेषहीनमित्यादि । " 1 ननु चतुर्दशजीवभेदेषु प्रत्येकं ज्ञानावरणीयादीनां कियतीमबाधां विवज्ये कर्मदलं निषिञ्चति ? उच्यते, बाधानियमानुसारेण यावत्यबाधा लभ्यते तावतीमवाधां विवर्ज्य । वच्यते चाबाधानियमः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy