SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [अथ गालाश्रीवर्धमानसूरिप्रबन्धः ॥ १०॥] वामनस्थल्यां लघुकास्मीरायां८ बृहस्पतिराणाको राज्यं करोति । तत्र कपोलश्रीवर्द्धमानसूरयः सन्ति । व्याख्यानसमये पार्श्वद्वयोदश २ आचार्या उपविशन्ति । पुप्फगृहमध्ये नवकच्चोलकानि नवरसामृतं ग्रहीतुं दक्षिणतो मुच्यन्ते । वामाङ्गे क्षुरिका । यदि अपशब्दः पुनरुक्तं समेति तदा तया जिह्वान्यासः क्रियते । ___ एकदा श्रीपत्तने देवमहानन्दनामा गौडिकः समेतः । चतुरशीतिपुत्तलकाश्चरणावधो बद्धाः सन्ति । सोमनाथस्य द्वारे तृणपानीयं मुक्तम् । कपाटानि दत्तानि । . " यः कोऽपि वादी विद्यते स वादं करोतु । अन्यथा पशुर्भूत्वा तिष्ठतु ।" दिनत्रयं जातम् । तावता सरस्वत्या रात्री आचार्यायोक्तम् । “ त्वं वादिनं जय ।" ___“ अहं तत्र नो यामि । तत्र पतितात्वया वतिनां पार्थात् मुण्डपार्धात् द्रम्मपञ्चक सीमायां गृह्णन्ति ।" " ते सर्वेऽपि आकारणाय समेष्यन्ति।" भारत्या' कथितम् । “ कमण्डला अमृतजलं गृहाण, पिब ।” तदा वाघलउ-सिंघलउ-शिष्यद्वयं पायितम् । महाविद्यार्गलं जज्ञे । पतितात्वयानां भारत्या प्रोक्तम् । “ गुरवो मनाप्यन्तु।" मिलित्वा तत्र सर्वे जग्मुः । चरणौ पतिताः । “ प्रसादं कृत्वा पादमवधारयन्तु, वादिन जयन्तु ।" द्वौ शिष्यो अश्वारूढौ प्रहितौ । देयीनदीपूरे अश्वौ शक्त्या प्रवाहितौ । गुरुभिः रक्षिता लङ्घिताः। नदी स्तम्भिता । ते चमत्कृताः देवपत्तने समायाताः । ३९८. लघुकास्मीरा. ३९९. पाश्वद्वयो द्वादश. ४००. उपविशति. ४०१. गृहीतुं. ४.२. दक्षिणो. ४०३. समेत्यंति. ४०४. भारित्या. ४०५. मनापयतु. ४०६. शष्यो. ४०... स्तंभिताः. ४०८. चमत्कृता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy