SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ [अथ कूआरीराणाप्रवन्धः ॥ ८॥] कीडीमङ्कोडीनगरे कूआरीराणाको राज्यं करोति । रात्रौ १६ स्त्रियः१० सुवर्णघर्घरकान् करे बद्ध्वा पादौ चम्पन्ति यावता निद्रा समेति । यावता जागर्ति वीणावंशादिकान् लात्वा गायन्ति । प्रहरचतुष्कम् एषा राज्यस्थितिः। कस्मिन् दिने पाश्चात्यपहर १ समये शङ्खध्वनिः श्रुता । जागरितः । तासां पार्थे पृष्टम् । “किं श्रूयते ?" ताभिरुक्तम् । " सोरठीया सोमनाथ नेपालपाशुपति । अनन्तसेन रामसेनं प्रति यात्रां यान्ति ॥" राज्ञा गदितम् । " अहमपि यास्यामि ।" शुभदिने चलितः। सुराष्ट्राया उपरि चलितः । श्रीपत्तनमध्ये भूत्वा चाण्डसमापरिसरे गतः । तत्र व्यवहारी कश्चित् सरः कारयति । तस्य समीपे राज्ञा १९ रत्नानि कृष्णवस्त्रेण बन्धयित्वा एकान्ते अपितानि । राजा यात्रां कृत्वा वलितः । याचितानि रत्नानि । तेन व्यवहारिणा न दत्तानि । झकटको जातः । श्रीजयसिंहपार्थे आगतौ । न मानितम् । दिव्यं सरसि कृतम् । “ यदि मया गृहीतानि तदा जलं मा तिष्ठतु ।” सरः स्फुटितम् । जलं गतम् । अद्यापि फूटे लाउ प्रसिद्धं विद्यते । राजा जयसिंहदेवस्तुष्टः । याचित्वा सहस्रलिङ्गविशापता च याचिता" राज्ञा दत्ता । ततः सरउपकण्ठे" देशान्तरकुटी कारिता । चिरकालं तपस्तप्त्वा स्वर्ग ययौ ॥ [इति ] कूआरीराणाप्रबन्धः ॥ ८ ॥ . ३७१. स्त्री. ३७२. वलितः. ३५३. सहस्तलिंगविशापं. ३७४. याचिताः ॥. ३७५. सरःउपकरे. ३४५. कूआरी'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy