SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ तावता" सा सरसि समायाता । स वाहित्रको न दृष्टः । यावचिन्तयति तावत् राजा समाययौ । कथितम् । “ आगच्छन्तु सर्वे ।” दण्डेनाऽधोद्वारमुद्घाट्य ताभिः समं निर्गतः । उज्जयिन्यां प्रवेशो जातः । [ पुरोहितेन दानं स्वीकृतम्] ॥ चतुर्थों दण्डोऽभवत् ॥ [५] राज्ञा पुनः पृष्टम् । " पञ्चमं वितउं कथ्यताम् ।" ताः कथयन्ति । “ मन्त्रिणोऽपकलां कृत्वा कलां कुरु ।” " करिष्यामि।" राज्ञो मत्रिणः८० सप्त पुत्रास्तेषां सप्त वध्वः । लघुवधूः२८१ सर्वजातीनां स्वरान् जानाति । एकदा शिवायाः स्वरः२८२ श्रुतः । " षण्मासमध्ये ८३ लक्ष्मीर्यास्यति।” तज्ज्ञात्वा छगणकानां मध्ये रत्नानि क्षिपति । एकदा राज्ञा परीक्षार्थ सर्व गृहीत्वा अपमानं दत्वा निःकासितः८५ । मत्री सकुटुम्बो निर्गतः । तदा वध्वा छगणकानि सार्थे नीतानि । कस्मिन् गत्वा स्थितः । वधूः छगणकमध्यादेकं रत्नं निःकाश्य तेषां यच्छति । पुरुषा गृहनिर्वाहं कुर्वन्ति । नगरमध्ये कर्म कुर्वन्ति । भाटके वध्वा गृहीतम् । तत्र ज्येष्ठपत्नीद्वयम् आत्मना वधूत्रयं स्थितम् । यत्काष्ठादिकमानयन्ति ते पुरुषास्ताः प्रच्छन्नवृत्त्या गृह्णन्ति। अन्नादिकं यच्छन्ति । अन्यत्र ते तिष्ठन्ति । पुनः कियद्भिर्दिनैः शिवायाः सुस्वरो जातः । तया ज्ञातं राजा मनापनाय समेप्यति । अन्यदिने राजा समागतः । सर्वेऽपि मिलिताः सन्मानिता आकारिताः । तैर्मानितम् । २७५. ता. २७६. वाहेत्रको. २७७. दंडेनाधद्वार". २७८. In view of the command at the commencement specified in the sentence "पुरोहितस्य दानं दीयताम् '', a sentence of this type is required here to complete the story. Hence it is added by the editor. २७९. अभवत्. २८०. मंत्रिण. २८१. वधू. २८२. शिवया स्वरं. २८३. षट्मास. २८४. तज्ञात्वा. २८५. निःक्कासितः. २८६. सकुटंबो निर्गतः । स्तदा. २८७. वधू. २८८. कर्म. २८९. जेष्ट'. २९.. वृत्या गृहतेि. २९१. समेस्यति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001844
Book TitleLaghuprabandhsangrah
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages300
LanguageSanskrit, English
ClassificationBook_Devnagari, History, & Story
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy