________________
॥श्रीः
॥
लघुप्रबन्धसङ्ग्रहः।
[अथ जगद्देवप्रबन्धः ॥ १॥] उज्जयिन्यां परमारवंशे उदयादित्यो राजा । तत्पुत्रो जगद्देवः' । अपरमातृजो रणधवलः। जगद्देवोऽतीव दाता। राजा दिवं गतः । प्रधानै रणधवलाय राज्यं दत्तम् । परं सर्वः कोऽपि जगद्देवमवलगति' : प्रधानेन घाताः क्षिप्ताः। निर्गतः।
कल्याणकोटिपुरे परमरिद्धिनिवासो निद्रागहिलडउ' कोपकालानली रुद्रो-ऽवन्ध्यकोपप्रसादः परमाडिराजा राज्यं करोति । तस्य सीमायां नगरम् । राण्या पण्याङ्गनानां ग्रासविधौ दत्तम् ।
तत्राऽऽगतः । पत्तयः सर्वेऽपि वालिताः। नगरमध्ये श्रेष्ठिगृहे भुक्त्वा पुरपरिसरे गच्छन् राज्ञीलीलावतीचामरहारिण्या गवाक्षस्थयाऽग्रेतनं ताम्बूलं परिहरन् स्कन्धस्योपरि करं कृत्वा पुनर्याचन् दृष्टः । तदा तया ज्ञातम्। अयं कोऽपि भाग्यवान् । उत्तमः । आकारितः । स्थापितः। केनाऽपि भट्टेन कयवारः कृतः। तदा आस्वादान्ते राज्ञोपलक्षितः। राज्ञा आकारितो मिलितः। अस्मिन्नवसरे विशाललोचनया" कयवारं कुर्वत्या शिर आच्छादितम् । लक्षत्रयं कञ्चलिकायोग्यं दत्तम् ।
दरिद्रान् सृजतो धातुः
कृतार्थान् कुर्वतस्तव। न जानीमो जगद्देव
कथं विश्राम्यते करः ॥ Note: The original readings of the manuscript, wherever vary
ing from the reconstructed text, are stated in these footnotes for ready reference:
१. जगदेवः. २. जगदेवो अतीव. ३. रणधवल. ४. जगदेव. ५. घाता क्षिप्ता निम्रतः. ६. परमरिद्धिनिवास । नीद्र. ७. रुद्र। अध्यकोपप्रसाद. ८. राज्ञा लीलावतीचमरहारिण्या. ९, गवाक्षस्थया । अग्रेतनं, १०. तया आश्वादन्ते. ११. °लोचना. १२. सृजितो. १३. कुर्वतस्तवः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org