________________
४५८
चन्द्रप्रमचरितम्
[१८, १५:
श्रावकाणां च लक्षाणि त्रीणि सम्यक्त्वशालिनाम् । लक्षाणि पञ्च पूतानां श्राविकाणां व्रतादिभिः ॥१५१॥
इत्थं विहृत्य भगवान्सकलां धरित्रीमध्यासितो गणधरैर्मुनिवृन्दवन्द्यैः। धर्मोपदेशजलवर्धितभव्यसस्यः
संमेदशैलशिखरं स समाससाद ॥१५२।। तत्रासौ परिमुक्तमासविहतिः पक्षे सिते सप्तमी. तिथ्यां भाद्रपदे स्थितः प्रतिमया सार्ध मुनीनां गणैः। निर्बाधं दशपूर्वलक्षपरिमायुक्तायुषः प्रक्षये शुक्लध्याननिरस्तकृत्स्नकलुषः सिद्धः पदं शिश्रिये ।।१५३।।
श्रावकाणामिति । सम्यक्त्वशालिनां सम्यक्त्वसंपन्नानाम् । श्रावकाणाम् उपासकानाम् । त्रीणि त्रिप्रमितानि । लक्षाणि । अभूवन् । व्रतादिभिः व्रताद्यः । पूतानां पवित्राणाम् । श्राविकाणाम् उपासकवनितानाम् । पञ्चलक्षाणि । अभवन् ॥१५१ । इत्थमिति । मुनिवृन्दवन्धः । मुनीनां वृन्देन निकायेन वन्धराराधनीयैः । गणधरैः गणनायकैः । अध्यासितः प्राथितः (?)। धर्मोपदेशजलवधितभव्यस्यः धर्मस्योपदेश एवं जलं तेन वधितानि प्रतिपालितानि भव्य एव विनेयजन एव सस्यानि यस्य सः । सः चन्द्रप्रभजिनेन्द्रः । भगवान् स्वामी। सकलां समस्ताम् । धरित्री भूमिम । इत्थम अनेन प्रकारेण । विहृत्य श्रीविहारं विधाय। संमेदशैलशिखरं संमेदशैलस्य संमेदपर्वतस्य । शिखरम् अग्रम् । समाससाद समाप । षद्लु विशरणगत्यवसादनेषु रिट् ॥१५२॥ तन्नेति । तत्र संमेदशिखरे । परिमुक्तमासविहृतिः मासं मासपर्यन्तं विहृतिर्मासविहृतिः । 'कालाध्वनोप्तो ' इति द्वितीया, परिमुक्ता मासविहृतिर्येन सः। भाद्रपदे भाद्रपदमसे । सिते शुक्ले । पक्षे। सप्तमी तिथ्यां सप्तम्यां तिथौ । मुनिनां यतीनाम् । गणैः समूहैः । साधं साकम् । निर्बाध परवाधारहितं यथा तथा । प्रतिमयां प्रतिमायोगेन । स्थितः आसितः। दशपूर्वलक्षपरिमायुक्तायुषः दशानां पूर्वाणां लक्षाणां परिमया प्रमाणेन युक्तस्यायुषः । प्रक्षये परिक्षये सति । शुक्लध्याननिरस्तविश्वकलुषः शुक्लध्यानेन निरस्तानि निराकृतानि विश्वानि अखिलानि कलुषाणि पापानि यस्य सः । असो। भगवान् । सिद्धेः मोक्षस्य । पदं स्थानम् ।
गये थे ॥१५०। तीन लाख सम्यग्दृष्टि श्रावक और पांच लाख व्रत आदिसे पवित्र श्राविकाएं थीं ॥१५१॥ इस प्रकार भगवान् चन्द्रप्रभ ने-जिनके साथ समस्त मुनियोंके द्वारा वन्दनीय गणधर थे-सारी पृथिवीमें विहार किया और धर्मोपदेश रूपी जलसे भव्य जीव रूपी अनाजको विकसित किया। इसके पश्चात् वे सम्मेदाचल ( शिखर जी ) के शिखरपर जाकर विराजमान हुए ॥१५२.। वहाँ उन्होंने एक मास पर्यन्त विहारका परित्याग करके मुनि-सड़के साथ प्रतिमायोग धारण किया। फिर भाद्रपद शुक्ला सप्तमी ( भादों सुदी सातें ) को शुक्लध्यानके द्वारा समस्त पापोंको नष्टकर सारी बाधाओंसे रहित, दस लाख पूर्व प्रमाण आयुके समाप्त होते ही
१. म श्रावकाणां। २. म सस्यसंमेद। ३. म परिमाणस्यायुषः । ४. आ इ युषः सत्तम- । ५. = येन । ६. श यस्य । ७. श परिबाधा । ८. श परिमाणयुक्ता। ९. श परक्षये । १०. = येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org