SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४५७ -१८, १५०] अष्टादशः सर्गः प्रातिहार्यैश्च सोऽष्टाभिः शुशुभे शुभचेष्टितः । छत्तत्रयादिभिः सर्वजगदैश्वर्यशंसिभिः ।।१४५।। नवतिस्च्यधिका तस्य सभायां गणिनोऽभवन् । द्वे तीक्ष्णतरबुद्धीनां सहस्रे पूर्वधारिणाम् ।।१४६।। शिक्षकाणामुभे लक्षे चतुर्भिरधिकैः शतैः । अवधिज्ञानिनामष्टौ सहस्त्राणि महाधियाम् ॥१४७॥ दश केवलनेत्राणां सहस्राण्यमलात्मनाम् । चतुर्दश सहस्राणि विक्रियर्द्धिमुपेयुषाम् ॥१४८॥ मनः पर्ययिणामष्टसहस्राणि सतेजसाम् । सह षड्भिः शतैः सप्त सहस्राणि च वादिनाम् ।।१४६।। वरुणाद्यार्यिकाणां च विशुद्धतरचेतसाम् । अशीतिश्च सहस्राणि लक्षमेकं क्षतैनसाम् ।।१५०।। ॥१४४॥ प्रातिहायैरिति । सर्वजगदैश्वर्यशंसिभिः सर्वेषां जगतां भुवनानामैश्वर्यं शंसिभिः सूचकैः । सुरचेष्टितैः सूरैरमरैश्चेष्टित निर्मितैः । छत्रत्रयादिभिः छत्राणामातपवारणानां त्रयं तदेवादिर्येषा तैः । अष्टाभिः अष्टसंख्यः । प्रातिहायश्च प्रातिहार्याख्यातिशयैश्च । सः भगवान् । शुशुभे भाति स्म। शुभि दीप्तौ लिट् ॥१४५॥ नवतिरिति । तस्य चन्द्रप्रभजिनेन्द्रस्य । सभायां समवसरणे । व्यधिका त्रिभिरधिका । नवतिः नव वारान् दश । गणिनः गणधराः । अभवतां [ अभवन् ] अभूवन् । लङ् । तीक्ष्णतरबुद्धीनां तीक्ष्णतरा पटुतरा बुद्धिर्धीर्येषां तेषाम् । पूर्वधारिणां पूर्वधराणाम् । द्वे सहस्रे । अभवताम् ॥१४६॥ शिक्षकाणामिति । शिक्षकाणां शिक्षाचार्यमुनीनाम् । चतुभिः । अधिकैः । युते शते [ शतैर्युते ] उभे लक्षे नियुते । अभवन् । महाधियां महती धीर्येषां तेषाम् । अवधिज्ञानिनां तृतीयज्ञानयुतानाम् । अष्टसहस्राणि अष्ट च तानि सहस्राणि च । अभवन् ।।१४७॥ दशेति । अमलात्मनाम् अमलो निर्मल आत्मा येषां तेषाम् केवलनेत्राणां केवलं पञ्चमज्ञानं तदेव नेत्रं येषां तेषाम् । दश दशप्रमितानि । सहस्राणि । अभवन् । विक्रिद्धि विक्रियाम् ऋद्धिम् । उपेयुषां प्राप्तानाम् । चतुर्दश चतुभिरधिशा दश, चतुर्दशप्रमितानि । सहस्राणि । अभान् ॥१४८॥ मन इति । सतेजसां प्रभावसहितानाम् । मनःपर्ययिणां चतुर्थज्ञानिनाम् । अष्टौ अष्टप्रमितानि । सहस्राणि । अभवन् । वादिनां महावादिनाम् । षड्भिः षट्प्रमितैः । शतैः । सह साकम् । सप्तसहस्राणि । अभूवन् ।।१४९॥ वरुणेति । क्षतैनसां क्षतं नष्टमेन: पापं यासां तासाम् । विशुद्धतरचेतसां विशुद्धतरं प्रकृष्टनिर्मलं चेतो यासां तासाम् । वरुणाद्यायिकाणां वरुणायिका आद्या मुख्या यासां तासामायिकाणां च । एकं लक्षम्, अशीतिः सहस्राणि च । अभूवन् ॥१५॥ इन्हीं सरीखे और भी, जिनकी कुल संख्या चौदह है, अतिशयोंसे वे सुशोभित हो रहे थे ।।१४४।। उनकी चेष्टाएँ शुभ थीं। वे सारे जगतके ऐश्वर्यको सूचित करनेवाले छत्रत्रय-तीन छत्र आदि आठ प्रतिहार्योंसे सुशोभित थे ॥१४५॥ उनकी सभा ( समवसरण ) में तेरानवे गणधर थे और दो हजार तीक्ष्ण बुद्धिवाले पूर्वधारी ।।१४६।। दो लाख चारसौ उपाध्याय तथा आठ हजार तीवबुद्धिवाले अवधिज्ञानी थे ॥१४७॥ दस हजार निर्मल आत्मावाले केवली और चौदह हजार विक्रिया-ऋद्धि-धारो साधु थे ॥१४८॥ आठ हजार तेजस्वी मनःपयंयज्ञानी थे और सात हजार छह सौ वादी ( शास्त्रार्थी ) मुनि थे ।।१४६।। एक लाख अस्सी हजार वरुणा आदि आयिकाएं थीं, जिनके समस्त पाप विलीन हो चुके थे, और जिनके हृदय अत्यन्त विशुद्ध हो १. आ सूचयद्भिः । २. एष टीकाश्रयः पाठः, प्रतिषु तु 'अष्टौ सहस्राणि' इति समुपलभ्यते । ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy