SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३८७ - १६, १३] पोडशः सर्गः प्रख्यातः प्रशमरतः प्रतापराशिस्तत्रासीदवनिपतिर्महादिसेनः । यः क्रान्ताखिलभुवनैर्गुणैरुदारैरिक्ष्वाको कुलममलरलंचकार ।।११।। कुन्देन्दुद्यतिनिकरावदातयान्यान्यक्कुर्वञ्जति महीभृतः स्वकीया । कल्याणप्रकृतितया न केवलं यः स्थैर्येणाप्यनुविधे सुराचलेन्द्रम् ।।१२।। लावण्यं भृशमदधादभूदगाधो रत्नानामपि परमालयो बहूनाम् । अन्वेतुं तदपि शशाक यं महेच्छ' नाम्भोधिः प्रलयपराकृतव्यवस्थः ।।१३।। सेवितम् आश्रितम् । सज्जनानां सत्पुरुषाणाम् । हृदयमिव चित्तमिव । उरु महत् । शाक्यानां बौद्धानाम् । मतमिव समय इव । बहीभिः बहलाभिः । भूमिकाभिः माध्यमिक-सौत्रान्तिक-वैभाषिक-योगाचारादिमतभेदैः, ( पक्षे ) तलैः । स्थितम् । राजवेश्म राजसदनम् । [ अव- ] भाति विराजते । लट् । अमा२ ॥१०॥ प्रख्यात इति । तत्र पुर्याम् । यः। क्रान्ताखिलभुवनैः क्रान्तं व्याप्तमखिलं सकलं भुवनं लोको यैस्तैः । उदारैः महद्भिः । अमले: निर्मलैः । गुणैः माधुर्यादिभिः । इक्ष्वाकोः इशून् आकायत इति इक्ष्वाकुः, तस्य पुरुदेवस्य । कुलं वंशम् । अलंचकार बुभूष। (स:)। प्रशमरत: प्रशमे नयगुणे रतः प्रीतः । प्रतापराशि: प्रतापानां तेजसां राशिः पुजः। महादिसेनः महासेन इति" । अवनिपतिः भूमिपतिः । आसीत् अभवत् । लङ् । अतिशयः ॥११॥ कुन्देति । कुन्देन्दद्य तिनिकरावदातया कुन्देन्दोर्माध्यचन्द्रयोद्युतीनां निकर इव निचय इवावदातया शुभ्रया। स्वकोा स्वास्यात्मन: कोर्त्या यशसा । अन्यान् शेषान् । महीभृतः भूपान्, पक्षे पर्वतांश्च । जगति लोके । न्यकुकुर्वन तिरस्कुर्वन् । यः भूप: । न केवलं न परम् । कल्याणप्रकृतितया कल्याण य भद्रस्य, पक्षे सुवर्णस्य प्रकृतितया स्वभावतया। स्थैर्येणापि धैर्येणापि, पक्षे स्थिरत्वेनापि । सुराचलेन्द्रं महामेरुम् । अनुविदधे अनुकरोति स्म । डुधाञ् धारणे च लिट् । श्लेषोपमा ॥१२॥ लावण्यमिति । भृशम् अत्यन्तम् । लावण्यं शरीरकान्तिम्, लवणत्वमिति ध्वनिः । अदधात् धरति स्म । अगाधः अतलस्पर्शः । बहूनां बहुलानाम् । रत्नानामपि मणीनामपि । परमालयः प्रकृष्टनिलयः । अभूत् अभवत् । तदपि तथापि । प्रलयपराकृत. व्यवस्थः प्रलयेन प्रलयकालेन पराकृता निराकृता व्यवस्था मर्यादा यस्य सः । अम्भोधिः समुद्रः । महेच्छं महती पृथुला इच्छा चित्तं यस्य तम् । यं भूपम् । अन्वेतुं सदृशो भवितुम् । न शशाक समर्थो न बभूव । हाथियोंसे युक्त है। जिस तरह सज्जनोंका हृदय विशाल होता है, उसी प्रकार वह भी विशाल है। जैसे बौद्धोंके मतमें अनेक भेद-प्रभेद हैं वैसे ही उसमें अनेक खण्ड हैं ॥१०॥ वहाँ महासेन नामक राजा राज्य करता था। वह शान्तिप्रेमी और प्रतापका पुंज था। वह सारे भूमण्डल में विख्यात था। उसने समस्त संसार में फैले हुए अपने महान् निर्मल गुणोंसे इक्ष्वाकु वंशको सुशोभित किया था ॥११॥ उसने कुन्दपुष्प और चन्द्रकिरणोंको राशिके समान शुभ्र, अपनी कीर्तिसे इस भूतलपर अन्य सभी राजाओं ( पर्वतों) को मात कर दिया था, तथा न केवल भद्र ( स्वर्ण) प्रकृतिके कारण, वरन् स्थिरताके कारण भी सुमेरुपर्वतको अपने समान बना लिया था ॥१२॥ महासेनके शरीरपर मोती सरीखो आभा अत्यधिक मात्रामें थी। वह गम्भीर था, बहुतसे रत्नोंका आश्रय स्थान था और अत्यन्त उदारचेता था। यों समुद्र भी लावण्यखारेपनसे युक्त होता है, खूब गहरा होता है और होता है अगणित रत्नोंका आकर, किन्तु फिर भी वह प्रलयकालमें अपनी मर्यादाको छोड़ देता है, जब कि महासेन बड़ेसे बड़े संकटके अवसरपर भी अपनी मर्यादाको नहीं बदलता रहा, अतः समुद्र उसकी बराबरी नहीं कर १. अ महीशं । २. आ अस्य नवमश्लोकस्य व्याख्यापूर्णैव वर्तते । ३. आ आनायत । ४. श मरुदेवस्य । ५. श महाधिसेनः महाधिसेन इति। ६. आ भूपालान् । ७. आ प्रकृतिकतया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy