________________
१:३,६२ ]
त्रयोदशः सर्गः
संसर्पत्तटगतकर्कटां समीनामुन्मजन्मकरविराजमानमध्याम् । तीर्त्वा तामुदयसमन्वितो जगाम क्षोणीभृत्सरितमिवाम्बुवाहवीथीम् ||६२॥
इति श्रीवीरनन्दिकृतावदया चन्द्रप्रभचरिते महाकाव्ये त्रयोदशः सर्गः ॥ १३ ॥
चक्रे चकार । डुकृञ् करणे लिट् । उपमा || ६१ ॥ संसर्पदिति । संसर्पत्तटकर्कटां संसर्पन्तस्तटगतास्तीरगताः कर्कटाः कुलोरा यस्यास्ताम्, पक्षे कर्कट राशियुक्ताम् । समीनां मीनैर्मत्स्यैर्युक्ताम् पक्षे मीनराशियुताम् । उन्मज्जन्मकरविराजमानमध्याम् उन्मज्जद्भिरुत्तरद्भिर्मकरै जलचर विशेषः विराजमानं मध्यं यस्याः ताम्, पक्षे ( मकरराशिसहिताम् ) । तस्य ( ? ) अम्बुवाहवोथीमिव गगनमिव । तां सरितं जलवाहिनीं नदीम् । उदयसमन्वितः उदयेन संपदा समन्वितो युक्तः । क्षोणीभृत् पद्मनाभः । तीर्त्वा उत्तीर्य । जगाम ययो । गम्लृ गतौ लिट् । श्लेषोपमा ॥ ६२ ॥
इति श्रीवीरनन्दिकृतावुद्या चन्द्रप्रभचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये त्रयोदशः सर्गः ॥ १३ ॥
३२५
कर दिया - बढ़ा दिया || ६१ || वह नदी आकाश सरीखी थी । जिस तरह आकाशमें कर्कराशि, मीन राशि और मकर राशि होती है, उसी तरह उस नदी के तटपर कर्क - केंकड़े रेंग रहे थे, उसके जल में मत्स्य - मछलियां थीं और उसके मध्यभाग में मकर-मगर निवास करते थे । अभ्युदयशाली राजा पद्मनाभ उसे पार करके आगे चला गया ॥ ६२ ॥
इस प्रकार महाकवि वीरनन्दि विरचित उदयांक चन्द्रप्रभ चरित महाकाव्य में तेरहवाँ सर्ग समाप्त हुआ ॥ १३॥
१. = कर्कराशियुताम् । २. = नक्रः । ३. = अभ्युदयेन । ४ आ समन्वितः सहितः । ५. आ
क्ष्माभृत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org