________________
- १२, १९]
द्वादशः सर्गः शठता भवतोऽकुशक्रिया द्विरदेनेव मयावधीरिता। चिरकालमियं त्वयाधुना विहितो योऽपनयः स दुःसहः ॥१६।। वनकलिरिति द्विपाधिपः स्वयमागत्य तवाविशत्पुरम् । स धृतो भवतेति सत्वरैर्मम निश्चित्य चरैर्निवेदितम् ।।१७।। स्वयमेव किल प्रहेष्यसि द्विरदं तं ननु नष्टवस्तु मे । स पुनर्भवतात्मसात्कृतो मदपेक्षारहितेन वारणः ॥१८॥ इति ते विनिवेदितं मया कुरु जानासि यदात्मशान्तये । हितमज्ञजनो हि शिष्यते न भवानीतिसमुद्रपारगः ॥१।।
अपास्य मुक्त्वा । अपसरन्ति निर्गच्छन्ति । सृ गतो लट् । आक्षेपः ( उत्प्रेक्षा ) ॥१५।। शटतेति । भवतः तव । शठता दुर्जनता । द्विरदेन गजेन । अङ्कशक्रिया इव सृणिव्यापार इव । मया, चिरकालं अवधीरिता' क्षान्तिः कृता । यः अयम् । अपनयः दुर्नयः । अधुना इदानीम् । त्वया भवता । विहितः कृतः। सः अपनयः । दुःसहः सोढ़मशक्यः । अभवत् ।१६।। वनेति । वनकेलिरिति वनकेलिनामधेयः । द्विपाधिपः गजपतिः । स्वयम् आगत्य एत्य। तव भवतः । पुरं नगरम् । अविशत् अगच्छत् । सः द्विपाधिपः। भवता त्वया । धृतः स्वीकृतः । इति एवम् । सत्वरैः शीघ्रगमनयुक्तः । चरैः दूतैः। निश्चित्य निर्णीय। मम मे। निवे. दितं नियोजितम ।।१७।। स्वयमिति । तं द्विरदं तं गजपतिम् । स्वयमेव त्वमेव । प्रहेष्यसि किल प्रहेषयन भविष्यसि किल । नष्टवस्तु, मे मम । ननु निश्चयः । पुनः पश्चात् । सः वारणः वनके लिः इति गजपतिः । मदपेक्षारहितेन मम मे अपेक्षया वाञ्छया सहितेन । भवता त्वया। आत्मसात्कृतः स्वाधीनं ( न: ) कृतः। प्रागनात्माधीन इदानीमात्माधीनः क्रियते स्म आत्मसात्कृतः। 'व्याप्ती सात' इति सात-प्रत्ययः ॥१८॥ इतीति । मया, इति एवम् । ते भवतः । विनिवेदितं विज्ञापितम् । यद् आत्मशान्तये आत्मनः स्वस्य शान्तये हितनिमित्तम् । जानासि बुध्यसे । ज्ञा अवबोधने लट् । तत्कार्यं कुरु विधेहि । डुकृञ् करणे लोट् । अज्ञजनो हि मूढलोकोको हि। हितं शिष्यते शिक्ष्यते । शासू अनुशिष्टो कर्मणि लट् । नोतिसमुद्रपारगः नीतिरेव
.
अपमानके भयसे उसे छोड़कर चली जाती है ॥१५॥ जैसे हाथी अंकुशकी चुभनको चिरकाल सहता है, वैसे मैंने तुम्हारी धूर्तता बहुत समय तक सही, और उसको ओर उपेक्षा की, किन्तु अभी-अभी तुमने जो अन्याय किया है, वह मेरे लिए असह्य है ॥२६॥ क्या अन्याय किया ? सुनिये, हमारा 'वनकेलि' नामका एक गजराज स्वयं वहाँ पहुँच कर तुम्हारे नगरमें घुस गया, उसे तुमने पकड़ लिया है। इस बातको निश्चित रूपसे जानकर हमारे गुप्तचरोंने शीघ्र ही हमें खबर दी है ॥१॥ मैं सोचता था कि तुम मेरी खोई हुई चीजको अर्थात् उस हाथीको स्वयं मेरे पास भेज दोगे, किन्तु मेरी उपेक्षा करके तुमने उसे अपना बना लिया है ॥१८॥ बस, मैंने तुमसे इतना निवेदन कर दिया है, अब जो तुम्हारी शान्तिके लिए हो-जिससे तुम्हें शान्ति हो, सो करो। हितकी शिक्षा मूर्खको दी जाती है। आपको हितको शिक्षा कैसे दो जा सकती है ? क्योंकि आप तो नीतिशास्त्रके--जो समुद्रकी भाँति अपार है-पारगामी
- १. आ इ मयं । २. = बहकालपर्यन्तम् । ३. = उपेक्षिता । ४. = कथितम् । ५. = स्वत एव । ६. आश नष्टेन वस्तु । ७. = निश्चयेन । ८. श बुध्यसि । ९. आ शासु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org