SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ५, ५३ ] पञ्चमः सगः श्रुतशुद्धधीरधरितेन्द्रपदं पदमास्थितः पितुरुदारतमम् । स कलाधरः सकलभूमिभृतां मुकुलीचकार करपद्मवनम् ||५०|| नयनाभिराममकलङ्कतनुं नवमाद्धानमुदयं जनता । शिरसा दृशोर्गतममुं विषयं प्रणनाम बालमिव चन्द्रमसम् ॥ ५१ ॥ स कदाचनाथ युवराजयुतः सदुपायनानुगतमण्डलिनाम् । प्रविलोकयन्निवहमास्त मुद्दा नृपतिर्मनोहरसभाभवने ॥५२॥ प्रथितोऽथ चण्डरुचिरित्यसुरस्तदशेषमेव परिमोह्य सदः । कृतपूर्ववैरमवगम्य सुतं तमिलापतेरपजहार रुषा ||५३|| स्थापयति स्म । विश प्रवेशने णिजन्ताल्लुङ ||४९|| श्रुतेति । अधरितेन्द्रपदं निरसोकृतदेवेन्द्रपदम्' । उदारतमं प्रकृष्टमहितम् । पितुः तातस्य । पदं राज्यपदम् । बास्थितः तिष्टतिस्म । 'श' स्थासोऽधेराधारः' इत्याधारे द्वितीया । श्रुतशुद्धधीः श्रुतेन शास्त्रेण शास्त्राभ्यासेन शुद्धा निर्मला घोर्बुद्धिर्यस्य सः । सः कुमारः । कलाधरः चतुःषष्टिकलाधरः, पक्षे षोडशभागधरश्चन्द्रः । सकलभूमिभृतां सकलानां सर्वेषां भूमिभृतां राज्ञाम् । करपद्मवनं करावेव हस्तावेव पद्मवनं कमलवनम् । मुकुलीचकार संकोचं चकार 'कर्मकर्तृभ्याम् -' इत्यादिना चिचः । 'कत्रो चानव्ययस्य' इति ईकारादेशः । श्लेषो रूपकञ्च ॥ ५० ॥ नयनेति । नयनाभिरामं नयनयोरभिरामं मनोहरम् । अकलङ्कतनुम् अकलङ्का निर्मला तनुः शरीरं यस्य तम् । नवं नूतनम् । उदयं संपदम्, पक्षे उत्पत्तिम् । आददानं स्वीकुर्वन्तम् । दृशोर्नयनयोः । विषयं गोचरम् । यातं गतम् । बालं नूतनम् । चन्द्रमसमि चन्द्रमिव । अमुं कुमारम् | जनता जनसमूहः 'ग्रामजनबन्धु गजसहायात्तल्' । [ शिरसा मस्तकेन । प्रणनाम प्रणामं चकार । ] श्लेषोपमा ।। ५१ । स इति । अय युवराजपद प्राप्त्यनन्तरम् कदाचन एकदा । युवराजयुतः युवराजेन कुमारेण युनः सहितः । सः नृपतिः अजितं जयभूमिपः । मनोहरसभाभवने मनोहरे सुन्दरे सभाभवने सभासदने । सदुपायनानुगतमण्डलिनां सद्भिः प्रशस्तैरुपायनैरुपग्राह्यः अनुगतानाम् अनुयातानां । मण्डलिनां भूमृताम् । निवहं समूहम् । प्रविलोकयन् पश्यन् । मुदा संतोषेण । अस्त उपविशति स्म ॥ ५२ ॥ प्रथित इति । अथ सभागृहस्थित्यनन्तरम् । चण्डरुचिः इति प्रथितः प्रसिद्धः । असुरः असुर कुलभवः । तदशेषमेत्र सकलमेव । सदः सभाम् । संमोह्य मूच कृत्वा । कृतपूर्ववैरं कृतं विहितं पूर्वमद्यं वैरं विरोधम् । अवगम्य ज्ञात्वा । युवराजकी बुद्धि अनेक शास्त्रोंका अभ्यास करनेसे परिष्कृत थी और वह चन्द्रमाकी तरह समस्त कलाओं का आश्रय था । इन्द्रके पदसे भी उत्कृष्ट और प्रतिष्ठित पिताके महान पद पर उसके आसीन होते ही समस्त राजाओंने हाथ जोड़ दिये । चन्द्रमाको देखकर कमलोंका जैसा आकार हो जाता है, ठीक वैसा ही आकार उस समय समस्त राजाओंके हाथोंका हो गया ॥ ५० ॥ जिस प्रकार नयनाभिराम, निष्कलंक और नवोदित बालचन्द्रको देखते हो सभी लोग नमस्कार करते हैं, उसी प्रकार नयनाभिराम, निष्पाप और नवीन अभ्युदयको प्राप्त हुए युवराज को देखते हो सभी लोग प्रणाम करने लगे ॥ ५१ ॥ इसके पश्चात् एक दिनकी बात है, राजा अजितंजय युवराज के साथ सुन्दर सभा भवन में बैठे हुए थे । इसी अवसरपर माण्डलीक राजाओंका मण्डल उत्तम उपहार लेकर उससे मिलनेके लिए वहाँ आया । अजितंजय उसकी ओर दृष्टिपात कर ही रहा था ॥ ५२ ॥ कि इतने में चण्डरुचि नामका एक कुख्यात असुर वहाँ आ धमका । राजकुमारके साथ उसका पिछले जन्मका वैर था । सभामें पहुँचते ही उसने उसे १२९ ४. १. अ आ इ क ख ग घ म चन्द्ररु ं । २. श स नीरसीकृत देवेन्द्रपदवीम् । ३. आ रतनुं । = आरूढ़ः । ५. =संकोचयामास । ६. • उपहारैः । ७. आश स विलोकयन् । ८. आ स्वीकृत्यनन्तरम् । ९. = = मूच्छितां कृत्वा । १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy