SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [४, २४ - विहाय ये निर्वृतिमव्यपायां बहुव्यपायां वृणुते विभूतिम् । हित्वा हिमं ते शुचिचन्दनाम्भः पिबन्त्यपो मूढधियः सपङ्काः ।।२४।। ममेदमस्याहमिति ग्रहेण यस्तो वराकः कथमेष जन्तुः। अणुप्रमाणस्य सुखस्य हेतोर्दुःखं गिरीन्द्रोपममभ्युपैति ।।२।। न काकतालीयमिदं कथंचिक्लेशक्षयान्मानुषजन्म लब्ध्वा । युक्तः प्रमादः हिते विधातुं संसारवृत्तान्तविदा नरेण ॥२६॥ इति प्रजानामधिपः स्वचित्ते विचिन्तयन्संसृतिफल्गुभावम् । जगाम वैराग्यमपेतरागो बुद्धेः फलं 'ह्यात्महितप्रवृत्तिः ।।२७।। उपैति प्राप्नोति । अस्य जीवस्य । मोहम् अज्ञानम् । पश्यत वीक्षध्वम् । दृषि प्रेक्षणे लोट । 'पा घ्रा-' इत्यादिमा पश्य-अदेशः । आक्षेपः (?) ।।२३।। विहायेति । ये पुरुषाः । अव्यपायां व्यपायरहिताम् । निवृत्ति मुक्तिम् । विहाय विहानं पूर्व० त्यक्त्वा । बहुव्यपायां बहुरनेको व्यपायो बाधा यस्यास्ताम् । विभूतिम् ऐश्वर्यम् । वृणुते गृह्णन्ति । ते मूढधिय: अज्ञानिनः । हिमं शोतलम् । शुचि निर्मलम् । चन्दनाम्भः चन्दनेन श्रीगन्धेन मिश्रमम्भो जलम। हित्वा त्यक्त्वा । सपङ्का: सकर्दमाः । अम्भः जलानि । पिबन्ति पानं कुर्वन्ति । आक्षेपः (निदर्शना) ॥२४॥ ममेति । मम इदं मे एतत् । अस्य एतस्य शरीरादेः अहमिति ग्रहेण अभिमानेन । प्रस्त: पीडितः । वराकः मर्खः । एषः अयम । जन्तुः जीवः । अणुप्रमाणस्य अणुप्रमाणयुक्तस्य । सुखस्य ह्लादनस्य । हेतोः निमित्तम् । गिरीन्द्रोपमं गिरीणां पर्वतानामिन्द्रस्य मेरोः उपमं' समानम् । दुःखमभ्युपैति प्रयाति । इण् गतौ लट् । आक्षेपः (?) ॥२५॥ नेति । क्लेशक्षयात् कर्मक्षयात् । काकतालीयं काकतालस्य समानम् । इदम् एतत । मानुषजन्म मनुष्यस्येदं मानुषं तच्च तज्जन्म च । कचित् यन केन प्रकारेण । लब्ध्वा प्राप्य । संसारवृत्तान्तविदा संसारस्य चतुर्गतिभ्रमणरूपस्य वृत्तान्तं स्वरूपं वेत्तीति तथोक्तस्तेन । नरेण पुरुषेण । स्वहिते स्वस्य आत्मनो हिते । प्रमाद: अनवधानता। विधातुं समाचरितुम् । युक्तः योग्यः । न न भवति ।।२६।। इतीति । प्रजानां जनानाम् । अधिपः प्रभुः श्रोषणः । अपेतराग: अपेतो व्यपगतो रागो यस्य सः। इति उक्तप्रकारेण । संसृतिफल्गुभावं संसृतेः संसारस्य फल्गोः निःस्सारस्य भावं" स्वरूपम् । स्वचित्ते मानसे । विचिन्तयन् ध्यायन् । वैराग्यं विरागत्वम् । जगाम तो देखो! ॥२३॥ मुक्ति नित्य है और है निर्विघ्न-मुक्ति मिल भर जाय, फिर कभी वह नष्ट नहीं होती और न वहाँ किसी प्रकारको विघ्न-बाधाएं ही होती हैं। किन्तु लक्ष्मी उससे बिलकुल उल्टी है- प्राप्त होकर खर्च हो जाती, नष्ट हो जाती है और यदि किसी तरह रह भी जाती है तो उसमें अनेक विघ्न-बाधाएँ आती रहती हैं। जो लोग मुक्ति और लक्ष्मी-विभूति इन दोनोंमें-से विभूतिको पसन्द करते हैं, उनको बुद्धिकी बलिहारी है-वे निरे मूर्ख हैं, और वे चन्दन मिश्रित, ठण्डे, पवित्र और निर्मल जलको छोड़कर कीचड़ सहित ( गन्दी नालीका ) जल पीते हैं ॥२४॥ 'यह मेरा है' और 'मैं इसका हूँ' यह ग्रह इस बेचारे प्राणीको कैसे लग गया है ? इस ग्रहके लग जानेसे यह प्राणी जर्रा भर सुखके पीछे सुमेरूके समान बड़े-से-बड़े दुःखको भोगता है ॥२५।। यह मानव जन्म बड़े क्लेश भोगने के बाद कर्मोदयके मन्द होनेपर किसी तरह काकतालीय न्यायसे प्राप्त हुआ है। अतः संसारके प्रकरणको जाननेवाले मनुष्यको अपने हित में आलस करना उचित नहीं ॥२६॥ इस प्रकार संसारको असारताको मन-ही-मन १. म यात्म। २. आ प्रतावेव 'बाधा' इति दृश्यते । ३. प्रा श स आपः । ४. आ प्रतावेव 'मे' इत्युपलभ्यते । ५. आ यो हि यो । ६. = उपमा साम्यं यस्य तत् । ७. श स मानु। ८. श स वृत्तान्तः । ९. श स अवीतों। १०. निःसारताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy