SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ - ४, २३] चतुर्थः सर्गः नगापगातोयतरङ्गलोलैर्विलोभ्यमानो विषयैर्वराकः । नारम्भदोषान्गणयत्यनन्तदु.स्वप्रदान्मोहवशेन जीवः ॥२०॥ क्षणक्षयिण्यायुषि मूढबुद्धिः स्थिराभिमानं यदि नैष कुर्यात् । न कर्मपाशैर्विवशीकृतात्मा योनिष्वनन्तासु सहेत दुःखम् ।।२१।। मुहुः प्रणष्टा मुहुरेव दृष्टाः समागमाः स्वप्नसमागमाभाः विश्वासमृच्छत्यत एव विद्वान्न तेषु संयोगनिबन्धनेषु ।।२२।। या दुःखसाध्या चपला दुरन्ता यस्या वियोगो बहुदुःखहेतुः । तस्याः कृते जन्तुरुपैति लक्ष्म्याः परिश्रमं पश्यत मोहमस्य ।।२३।। पतनस्य समानमेव । तथापि । पुत्रकलत्रमूढः पुत्राश्च कलत्राणि च तेषु' मूढो मोहिर । मन्दबुद्धिः मन्दमतिः । अस्मादृशः वयमिव दृश्यते इति अस्मादृशः । 'त्यदाद्यन्य-' इत्यादिना कट्-प्रत्ययः । न जानाति न वेत्ति । ज्ञा अवबोधने लट् । आक्षेपः (?) ॥१९ । नगेति । नगापगातोयतरङ्ग लोलैः नगे पर्वते समुत्पन्नाया. आपगाया नद्यास्तोयस्य सलिलस्य तरङ्गा: कल्लोलास्त इव लोलश्चञ्चलै: विषयः पञ्चेन्द्रियगोचरैः । विलोभ्यमानः मह्यमानः । वराकः मखः । जीवः प्राणी। अनन्तदःखप्रदात [दान] अनन्तं निरवसानं दुःखं प्रददातीत्यनन्तदुःखप्रदः तस्मात् [-तान] । आरम्भदोषान आरम्भेभ्यः कृष्यादिभ्यः प्रभवपापानि । मोहवशेन अज्ञानवशेन । न गणयति । गण संख्याने लट् ।।२०।। क्षणेति । मूढबुद्धि: मोहितमतिः । एषः अयं जीवः । क्षणक्षयिणि क्षणे क्षयिणि नाशनशीले । आयुषि जीविते । यदि स्थिराभिमानं नित्यमित्यभिमानम् । [न] कुर्यात न विधेयात् । कर्मपाशै: पापपाशैः। विवशीकृतात्मा विवश कृतः परवशीकृत आत्मा स्वरूपं यस्य सः । अनन्तासु निरवसानासु । योनिषु उत्पत्तिस्थानेषु । दुःखं [न] सहेत नानुभवेत् । पहि मर्षणे लिङ् । आक्षेपः (?) ॥२१॥ मुहुरिति । स्वप्नसमागमाभाः स्वप्नस्य समागमस्यागमनस्याभाः सदृशाः । समागमः परिग्रहा: मुहुः पुनः । प्रणष्टः विनष्टः । मुहुरेव पुनरेव । दृष्टाः दृश्यन्ते स्म दृष्टाः। अतएव एतस्मादेव । विद्वान ज्ञानी। संयोगनिबन्धनेषु संयोगस्य कर्मबन्धस्य निबन्धनेष कारणेषु । तेषु समागमेषु । विश्वास विस्रम्भम् । न ऋच्छति न गच्छति । ऋच्छ गतौ लट् । उपमा ॥२२॥ येति । या दुःख साध्या दुखेन महता कष्टेन साध्या साधनीया। चपला चञ्चलरूपा। दुरन्ता दुःखावसाना । यस्याः वियोगः विगमः । बहुदु.खहेतुः बहोदुःखस्य हेतुः कारणम् । तस्याः लक्ष्म्याः ऐश्वर्यस्य । कृते निमित्तम् । जन्तुः प्राणी। परिश्रमं प्रयासम् । मूर्ख नहीं समझते ॥१६॥ पांच इन्द्रियोंके विषय पहाड़ो नदोकी तरङ्गोंकी भाँति चञ्चलअस्थिर हैं, फिर भी उन्होंने बेचारे जीवको ऐसा लुभा लिया है कि वह उनके मोहमें फंसकर खेती आदि नाना आरम्भ करता है, पर अनन्त दुःखोंको देनेवाले उनके दोषोंकी ओर कोई ध्यान ही नहीं देता ॥२०॥ यदि यह मोही जीव क्षणिक आयुमें स्थिरताका अभिमान न करता तो इसे कर्म बन्धन विवश न कर पाते और न अनन्त योनियोंके दुःख भो भोगने पड़ते ॥२१॥ कञ्चन और कामिनी आदि प्रिय पदार्थों का समागम स्वप्न समागम सरीखा क्षणिक है, जो बार-बार दृष्टि गोचर होता है और बार-बार दृष्टिसे ओझल हो जाता है । यह समागम कर्म बन्धनका कारण है। इसीलिए बुद्धिमान् मनुष्य इसपर विश्वास नहीं करता ॥२२॥ जो लक्ष्मी बड़े दुःखोंसे कमाई जाती है; जो चञ्चल है; जो बुरा फल देने वाली है और जिसका वियोग अनेक दुःखोंका कारण है, उसके लिए यह मनुष्य कितना परिश्रम करता है। इसके मोहको १. आ श स पुत्रमित्रकलत्रमूढः पुत्रश्च मित्रं च कलत्रं च पुत्रमित्रकल त्राणि तेषु । २. लोलाश्चचलाः, तैः। ३. दीनः । ४. प्रभवानि पापानि । ५. श स सह। ६. श स 'पुनः' इति नोपलभ्यते । ७. श स प्रनष्टः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy