________________
प्रशस्तिः अहिमन्नगरद्रङ्गे वर्षेऽश्वेषुरसाऽवनौ १६५७ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचे ॥ २९ ॥ ग्रन्थोऽयं
परिषच्चित्तवृत्तिवारिजिनीरविः वासरस्याऽऽदिमे यामे समाप्तिं समुपेयिवान् ॥ ३०॥ युग्मम्। साष्टपञ्चाशदधिकशतद्वयकथाम्बुभृतः 'सत्शुक्तिशक्तिजैः पूर्णः, कथारत्नाकरोऽभवत् ॥ ३१ ॥ नानाकथामणीपूर्णः
कविराजनिभालनात् । कथारत्नाकराह्वोऽयं ग्रन्थः सौभाग्यमश्रुताम् ॥ ३२॥ अस्मात्कथाजलधितः सुकथाजलौघं,
संगृह्यसारतरकाव्यमणिप्रपूर्णात् अम्भोधरा इव सभाजनर्हितुष्ट्यै,
__ व्याख्यासृजः क्षितितलं सुखयन्तु सन्तः ॥ ३३ ॥ यदि चारु चेतांसि सभ्यानां वशीकर्तु स्पृहाऽस्ति चेत् ।।
हृदि धार्या तदा चैतच्छास्त्रसंवननौषधि ॥ ३४॥ नानासूक्तिकथामुक्ता आदातुं चित्तमस्ति वः विगाह्यन्ताम्बुधा एष कथारत्नाकरस्तदा ॥ ३५॥ ज्योतिस्ततिप्रतिहतप्रचुरान्धकारौ,
यावत्सदाकृतिभृताविह पुष्प-दन्तौ। व्योमश्रियः कलयतः किल कुण्डलत्वं,
तावच्चिरं जयति शास्त्रमिदं मनोज्ञम् ॥ ३६॥ संजज्ञिरे सहस्राणि सप्तस्पष्टमनुष्टभाम् । तथा शतानि चत्वारि सर्वसङ्ख्यात्र वाङ्मये ॥ ३७ ॥ इति श्रीकथारत्नाकर ग्रन्थ प्रशस्ति
॥ ग्रंथाग्रं ७४००॥
॥ श्री शुभंभवतु ॥ यादृशं पुस्तके दृष्टवा तादृशं लिखितं मया । यदि शुद्धम शुद्धं वा मम दोषो न दियताम् । श्री स्थम्मतीर्थे मुनि गुणविजयेन लिपिकृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org