________________
तरङ्ग १०/ कथा २४९/२५०
२८७ देवशर्माप्यागतश्चूरिममदृष्ट्वा खिन्नश्चेति दध्यौ, अहो! निरुद्धप्रवेशनिर्गमद्वारं विहितमस्ति, तदा केन मम चूरिमं जग्धमिति मत्वा निरुद्धशरीरव्यापारः स द्वाररन्ध्रेण तथैव विदधानमाखुमालोक्येति चिन्तयाञ्चकार, यदयं मूषक: क्षितेः फालं दत्त्वा पुरुषद-मूर्वसिक्ककतश्चूरिममत्ति, तन्नूनमस्य बिलान्तर्निहितं किमपि सुवर्णादि भूरि धनमस्ति, तस्य धनस्य बलेनायमाखुर्मम चूरिममत्ति। ततः प्रवेशनिर्गमेन तद्विलनिर्णयं विधाय स तापसस्तद्विलतः कनकादि धनं घनमादत्ते स्म । तस्मिन् धने च गृहीते स वज्रदशनो भग्नकटिरिव फालं दातुमलं नाऽभूत्। ॥ इति धनबले मूषककथा ॥ २४९॥
॥२५०॥ स्नेहे जोहणचारणकथा। प्रीतिर्हि चित्ताऽनुरागजाता शस्ता, न पुनः सम्बन्धसम्भवा, यतः
प्रेम स्यान्न हि सम्बन्धात्, किन्तु चित्ताऽनुरागतः ।
जीवत्यम्बा गते पुत्रे, महमल्ला च संस्थिता ॥ १॥ तथाहि-सौराष्ट्रदेशमण्डने वामनस्थलीग्रामे पउमलस्य चारणस्य प्रीतिमतीभार्याकुक्षिसम्भवो जोहणसंज्ञः पुत्रः, स च द्वासप्ततिकलाकुशलो विशेषतो भरतपिङ्गलशास्त्रे निपुणो यौवनमापन्नः पित्रा कच्छदेशवासिनः करणदत्तस्य चारणस्य जयन्तीमिव रूपसौभाग्यवतीं जयन्तीनामकन्यां परिणायितः, रोहिण्या हिमरश्मिरिव तया भृशमासक्तः स गृहकार्यविमुखो वासराणि गमयति स्म। प्रकामं कामाऽऽसक्तं पुत्रमेकदा जनको जगौ, हे पुत्र! कामे भृशमासक्तस्य पुंसः सर्वपुरुषार्थसार्थपाथोरुहभास्करोऽर्थरूपः पुरुषार्थः क्षयं याति, तस्मिंश्च क्षीणे सर्वं विनष्टमेव। अस्मिंश्च सत्यसन्तोऽपि गुणाः प्रादुर्भवन्ति। यतः
यस्याऽस्ति वित्तं स नरः कुलीनः, स पण्डित: स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ २॥
जाई विज्जा रूवं, तिण्णिवि हिंडंतु कंदरे कुहरे ।
अत्थुच्चिय पाडुच्चो, जेण गुणा पायडा हुंति ॥ ३॥ प्रियतमाप्रेमपाशनिबद्धोऽपीति पित्रा शिक्षित: स पितरावनापृच्छ्य स्वस्त्रियं चाऽनुज्ञाप्य निश्येकाकी गृहानिर्गतः क्रमेण चित्रकूटमाययौ। तत्र मदनसिंहराजस्याऽऽशीर्वाद वदनेवमवादीत्आत्तः शत्रुपरम्परावधकृते खड्गः प्रतापाय ते, शश्वत्तीव्रतराय तेन तनुते राजन्नुपालम्भनम्। तैले तोयमिवात्र यत्प्रसरिता नीता: कथाशेषतां, सर्वेऽपि त्वयकाऽरयस्तदनृणो भर्तुर्भवेयं कथम् ॥४॥
इति तत्काव्यकलाकौशलचमत्कृतचेताः स राजा तं करि-तुरग-कनक-ग्रामाऽऽदिभिर्बहु सत्कृत्य भ्रातरमिव प्रेमदृशा पश्यन्नहर्निशं बहु मेने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org