________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते अथैकदा तेन पुरन्दरेण राज्ञा मन्त्री प्रोचे, कथं त्वया राजसभायामवसरे नाऽऽगम्यते ? हे देव! देवपादप्रसादादधुना वार्धके तनुजो जातोऽस्ति, स च स्तनन्धय आडकं मण्डयति रोदति च, सुखभक्षिका - कमनीयक्रीडनकादिके बहुवस्तुनि दत्तेऽप्याडकं स न मुञ्चति, कटौ क्रोडे स्कन्धे मूर्धनि चाध्यारोपितोऽपि न मन्यते, तेन भूयान् विलम्बो भवतीति किं करोमि ?
हे सचिव ! शिशुर्यद्याचते तद्वितीर्यते, तदा किं दुष्करं डिम्भानामाडकस्य भञ्जनम् ? इति श्रुत्वा हसित्वा च सचिवोऽवोचत्, हे देव ! शिशुरहं भवन्तश्च वप्तार:, तेन शिशोर्ममीऽऽडकं भञ्जयतु तात इत्यभिहिते वरमिति राजा स्माह । अथ सोऽपि शिशुरिव लालां मुञ्चन् बाष्पबिन्दूनुज्झरन् रिङ्खन् गाढं गालीर्ददद्धूलीरुच्छालयंश्च श्मश्रु- कचाकर्षणं कृत्वा मन्मयैर्वचनैरेवमूचे,
प्प ! सम्पूर्णोभयकोटिमञ्जुलराजभोग्यतण्डुलैः पक्वं, निस्तुषमुद्गदालीसारं, गवीननवीनघृतधारं, माषपर्पटपेशलं, सुसंस्कृतशाकाऽविरलं, पुण्याङ्कुरं कूरं भोक्ष्ये । किं च नानामणिकच्चोलकसनाथायां सुवर्णस्थाल्यां सकलशाक - पर्पट- घृतगर्भितकूर - दालीकवलं कृत्वा स्वयं हस्तेन मां भोजयेति भूपोऽपि सकलं तत्तथैव सूपकारेण सत्वरमचीकरत् । ततः स्वयं च तादृशं कवलं तन्मुखे मुञ्चन्नर्भीभूतेन मन्त्रिणा भूमौ निपत्य रोदनपुरस्सरं राजा व्याजहे, हे बप्प! कूरं घृतं शाकं पर्पटं दालीं च पृथक् पृथक् कुरु, चूर्णितं शाकादिमिश्रमहं ग्रासं न भोक्ष्ये, इत्यभिधाय मुखमुद्रणं च विधाय भूमौ निपत्य स बाढं रुरोद । अथ पार्थिवः प्राह - हे मन्त्रिन् ! सुनृतं बालानामाडकः शक्रेणापि भङ्कं न शक्यते, सचिववचनं समीचीनमिति ब्रुवन् राजा तं मन्त्रिणः पुत्रं स्वपुत्रवल्लालयति स्म। ॥ इति बालाः स्वकदाग्रहं न त्यजन्तीत्यर्थे सुमतिमन्त्रिकथा ॥ २४८ ॥
२८६
॥ २४९ ॥ धनबले मूषककथा ।।
पुंसां सर्वाऽखर्वगर्ववनकुल्यातुल्यं हि धनमेव, यतः -
वर्षा नदीनां ऋतुराट् तरूणा - मर्थो नराणां पतिरङ्गनानाम् । न्यायप्रधानश्च नृपः प्रजानां गतं गतं यौवनमानयन्ति ॥ १ ॥
सम्पत्तिर्हि मनुजानामुन्मादाय स्यात्, यतः —
यौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किं पुनस्तच्चतुष्टयम् ? ॥ २ ॥ पुमानास्तां, पशुरपि धनेनोन्मादं धत्ते, यतः -
पशूनामपि दर्पाय, जायते सम्पदां भरः । दत्तफाल: क्षितेरादत्, यदाखुरपि चूरिमम् ॥ ३ ॥ तथाहि–वघोटकग्रामे देवशर्मा तापसः, स च स्वभक्तलोकेभ्यो याचितैर्गोधूमैगृहीतघृत-गुडेन गोधूमपूपिकाचूरिमं विधायाऽर्थं वैकालिकार्थं सिक्कके विमुच्य तदर्थं च प्रातरत्ति । तस्मिंस्तापसे च गोधूममार्गणार्थं क्षेत्र - खलादौ क्वापि समुपेयुषि सिक्ककोपरि विमुक्तम चूरिमं विस्तारिणा गन्धोद्गारेण ज्ञात्वा महानेको मूषकः क्षितेः फालं दत्त्वा नित्यमत्ति स्म ।
१. आडक = हठ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org