________________
२७३
तरङ्ग १०/ कथा २३९/२४० गमयति स्म। अथ प्रभाते स राजा तत्र समागत्य तादृगवस्थं तं योगिनं प्राह, हे योगिन् ! किं त्वदुक्तं मदुक्तं वा समीचीनमिति श्रुत्वा स योग्यपि राज्ञः पक्षमङ्गीचकार। ॥ इति सङ्गप्राधान्ये प्रजापालराजकथा ॥ २३९॥
॥२४०॥ पण्डित्पाण्डित्ये सरस्वतीकुटुम्बकथा॥ विशारदै र्हि तदभिप्रायप्रादुष्करणेन सुरा अपि तोषं नीयन्ते, यतःसुरैः कृता अपि प्रशाः, प्रोत्तीर्यन्ते विशारदैः । स्त्रीपुंवच्चेति निर्णीतं, पुरा ब्रह्मकुलेन यत् ॥१॥
तथाहि-गौडदेशवासिनो माता-पिता-पुत्र-स्नुषाश्चत्वारोऽपि मेधाविन: सरस्वतीकुटुम्बकमिति प्रसिद्धिभाजो लघुकाश्मीरबिरुदधारिण्यां धारानगर्यां राज्यं कुर्वाणं श्रीभोजराज दिदृक्षवः समुपेयिवांसः। तेऽथ चत्वारोऽपि भोजराजमिति स्तुवन्ति स्म।
चत्वारः पुरुषोत्तमस्य नियताः स्वःसद्गुरोर्द्वादश । द्वि:पङ्क्तिप्रमिता निशाचरपते नोः सहस्रं कराः । नैषः कोटिसहस्रलक्षनियमः स्वामिन् ! प्रतापस्य ते । निःसङ्ख्यारिमहीभुजां हि युगपद्यः श्रीकरानग्रहीत् ॥ २॥ शश्वद्वैरिजनाऽभिमानसमिधां सम्भारसम्पूरितः । सिक्तस्तत्कमलेक्षणेक्षणपतद्बाष्पैकतैलोत्करैः । हष्यद्बन्दिविनोदिवाक्यविसरस्फाराऽनिलैः फूत्कृतः ।
कामं स्फातिमुपैति पिङ्गलमहा युष्मत्प्रतापाऽनलः ॥ ३॥ और्वो याति समुन्नतिं जलनिधेर्नीरन्ध्रनीरे वसन् । विद्युद् वृद्धिमुपैति जीवनमुचः पाथः प्रवाहै: प्लुता। अस्ति द्वेषिवधूविलोचनजलैः प्लुष्टः प्रतापश्च ते । तेनैषां पटुरेक एव हि कलाचार्यस्त्रयाणामभूत् ॥४॥
युष्मत्प्रतापमाहात्म्य-मस्मद्वाचामगोचरः। अस्वप्राश्चक्रिरे येन, जीवन्तोऽपि हि वैरिणः ॥५॥
इति कविकलाकौमुदीसमुल्लासितस्वान्तसागरः क्षोणिरमणः स्माऽऽह, के यूयं? कुतः समागताः?, तैरुक्तं हे राजन् ! गौडदेशवासिनो वयं सरस्वतीकुटुम्बमिति प्रसिद्धिभृतस्त्वन्नगरी दिदृक्षवः समेताः स्मः । सकलपौरपाण्डित्यं दर्शयितुं तत्कुटुम्बधनिकमादाय रात्रिचर्योचितरचितवेषः श्रीभोजो निजनगर्यां सायं बभ्राम।
तत्राऽऽदौ कापि गमनेनाऽवगतभूपस्वरूपा रूपाजीवा जगौश्रीमन्मुञ्जकुलप्रदीप! निखिलक्ष्मापालचूडामणे!। युक्तं सञ्चरणं तवाऽत्र नगरे च्छत्रेण रात्रावपि । मा भून्मद्वदनावलोकनवशाद् व्रीडाविलक्ष: शशी। मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥६॥ पुरतो यान्तं धुरन्धरगमनेन ज्ञातं राजानं प्रति मृगयुवधूराह
देव! त्वं जय काऽसि लुब्धकवधूर्हस्ते किमेतत्पलं । क्षामं किं सहजं ब्रवीमि नृपते! यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाऽ श्रुतटिनीतीरेषु सिद्धाङ्गनाः ।
गीतान्धा न चरन्ति भोज! हरिणास्तेनामिषं दुर्बलम् ॥ १. नष्टचर्योचित PDF
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org