SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २५८ श्री कथारत्नाकरे श्री हेमविजयरचिते ॥१०॥ दशमस्तरङ्गः। ॥ २२६॥ प्रथम-मूर्खकथा ॥ मूर्खत्वादपरं कष्टं नास्ति, यतःमूर्खत्वं खलु कष्टं, कष्टं खलु यौवनेऽपि दारिद्र्यम्। कष्टादपि कष्टतरं, परगृहवास: प्रवासश्च ॥१॥ किञ्च मूर्खाणां प्रतिक्रिया नास्ति, यतः शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्याऽऽतपो, नागेन्द्रो निशिताऽङ्कुशेन च महादण्डेन गो-गर्दभौ । व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ २॥ मूर्खा हि विवेकविकलाः स्वार्थभ्रंशभाजो भवेयुः, यतः स्वार्थं जनन्यायविहीनचित्ता, मूर्खाः प्रकामं निधनं नयन्ति । निदर्शनं साधुवितीर्णधर्मा-ऽऽशीर्वादवादा इह ते विवर्णाः ॥ ३॥ तथाहि-स्वैरं विचरन्तश्चत्वारो महामूर्खाः क्वापि वनदेशे मूर्तिमन्तमनगारं धर्ममिव महात्मानमेकं श्रमणमद्राक्षुः । सोऽपि साधुस्तेषां चतुर्णामपि धर्मलाभं ददौ। अथ पुरतो व्रजन्तस्ते चत्वारोऽपि धर्मलाभो मम दत्तो मम दत्त इति विवदमाना मिथ: स्पर्धयाऽधिकमत्सरा: पुनरागत्य कस्य धर्मलाभो दत्तः? इति तं भिक्षुहर्यक्षमप्राक्षुः। अपाण्डित्यपीनं तद्वचनं श्रुत्वा साधुस्तानाह भवतां मध्ये यो मूर्खस्तस्मै मम धर्मलाभाऽऽशीर्वादः । तथाऽप्यहं जडोऽहं जड इति विवदमानांस्तान्मूर्खान् पुनः मुनिः स्माह, भो भद्र! क्वापि पत्तने गत्वाऽऽत्मवादो निर्णीयतामित्यभिहितास्ते रत्नपुरनामनगरे गत्वा पौरान् प्राहुः, भोः पौरा अस्माकं मध्ये को मूर्खः? इति विवादो निर्णीयतां, तैरुक्तं स्वं स्वं मूर्खत्वं कथ्यतामितीरितास्ते स्वं स्वं मूर्खत्वमाख्यान्ति स्म। तेष्वेक ऊचिवान् क्षितिप्रतिष्ठिते पुरे मम कुरूपस्त्रैणशिरोमणी द्वे रमण्यौ, ते द्वे अपि मम समानमाने प्राणेभ्योऽपि वल्लभे। एकदा निशि द्वयोः पार्श्वयोः सुप्तयोस्तयोः पीनस्तने वक्षःस्थले करद्वयं निधायाऽन्तराले प्रसुप्तस्य मम वामनेत्रोपरि पतितया दीपवर्तिकया नेत्रं दग्धं, परमेकस्मिन्नपि करेऽपसारिते मा भूदेकस्या अपि प्रेमभङ्ग इति ज्वलन्नेत्रमुपेक्षितं मया, न पुनः पाणिनैकेन वर्तिका विध्यापिता । ततो दग्धैकलोचनस्य मम विषमेक्षण [काणो] इति नाम प्रथितं, तेनाऽहं मूर्ख इति, यतः स्त्रीभियाऽऽत्मनोऽनर्थकृता मया तुल्यः कोऽप्यस्ति किमन्यो मूर्खः? इति लोककौतुककारिणी स्वां जडिमाऽऽडम्बरधारिणी कथामभिधाय स वैधेयो व्यरंसीत्। ॥ इति प्रथममूर्खकथा ॥ २२६॥ १. तुला- धर्मपरीक्षा अमितगतिकृता ॥ २. हर्यक्षः = सिंहः ॥ ३. वैधेयः = मूर्खः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy