SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ तङ्ग ४/ कथा ९४-९५ १२३ च लोकैः प्रशंसिता सा प्रीतिमती गृहं गता। कः को वरः कस्यै कस्यै रोचते? इति पितृभिः पृष्टासु तासु चाऽऽद्या कमला जगौ सर्वलोकेभ्यो राजसुतो विलासी, अतः स एव मम विवोढा भूयादिति। राजसुतादपि मन्त्रिपुत्रो विशेषतः सम्भोगसौभाग्यवानिति स एव मम पतिरस्तु इति द्वितीया रमाऽब्रवीत्। मन्त्रिपुत्रादपि मन्त्रतन्त्रशक्तिभिर्वशीकृतराजादिलोकमनाः सुमनाः पुरोधसस्तनयस्तेन स एवास्तु मम रमण इति तृतीया लक्ष्मीर्जगाद। पुरोहितपुत्रादपि सर्वदा देव इव विविधविलासशाली श्रेष्ठिनन्दनस्तेन स एव मम प्रियतमो भवतादिति चतुर्थी पद्मा प्राह- अथ पितृभिर्यथारुचितवरान् विवाहितास्ताः सुखपदं बभूवुः ॥ इति मतिविषये प्रीतिमतीकथा ॥ ९४ ॥ ॥ ९५ ॥ यथा तथापि प्रतिबोधो देय इत्यर्थे पण्डितकथा ॥ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः, परोपकाराय सतां प्रवृत्तिः ॥ १ ॥ तेन परोपकारैकरसिका येन तेनाप्युपायेनोपकुर्वन्ति। यतः। यो यथात्र समुपैति विबोधं, तं तथैव हि नयेत विबोधम् । यत्कखेतिवचनाद् द्विकभक्षी, बोधितस्तथदधेति न वाक्यात् ?॥ २ ॥ तथाहि- धनसारे ग्रामेऽतीवमूर्खा बहवो भरडका वसन्ति। आत्मनां मध्ये कोऽपि पण्डितो नास्तीति मत्वा तैरशेषैः सम्भूयैकस्य भरडंकस्य नन्दको नाम नन्दनः कस्यापि पण्डितस्य पार्श्वे पठनार्थममोचि। जातिविशेषेण भृशं बालिशः सोऽपि नन्दको वर्षत्रयेण मातृकापाठमेवापाठीत्। वेदमाताऽनेनाधीतेति प्रतिपाद्य तेन पण्डितेन स तेषां भरडकाणां प्रत्यर्पितः । महाजडैस्तैरपि वेदमाताऽनेन पठितेति महापण्डितधियासौ मेने। किं बहुना? यदयं वक्ति तत्तद्वितर्करहिताः सन्तस्ते सृजन्ति। एकदा रात्रौ प्रदीपनेन समग्रेऽपि ग्रामे दग्धे क्वाप्येकस्य तरोरधो दग्धान् काकान् पतितान् विलोक्य तैरूचे- हे नन्दक ! किममी दग्धाः काका भक्ष्या उत न वेति ? तदुक्तोऽसौ जगादवेदमातरि 'क' इति काकाः, 'ख' इति खाद्यास्तेन सद्योऽमी भुज्यन्तामिति तदुक्तास्ते सर्वेऽपि तथैव कर्तुमुद्यता: केनापि वैदेशिकेन पण्डितेनावलोकिताः, पृष्टाश्च ते तस्मै नन्दकोक्तमूचिरे। अहो महामूर्खा अमीति मत्वा तेनाप्यभाणि, भो विप्राः ! श्रूयतां वेदमातृवाक्यं, क इति काका:, ख इति खाद्याः, तथ इति तथैव, सत्यमिति यावत्, परं दध इति दग्धाः काकाः, न इति न भक्षणीयाः, इति तद्वचनेन तदकृत्यानिवृत्तास्ते सर्वेऽपि तं वैदेशिकं पण्डितमपूजयन् ॥ इति यथा तथापि प्रतिबोधो देय इत्यर्थे पण्डितकथा ॥ ९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy